________________
'सिद्धाणं बुद्धाणं' सूत्रविवरणम्-श्लो० ६१॥]
[२८५ तित्थयरितित्थे नोतित्थयरिसिद्धाओ असंखेज्जगुणाओ, तित्थयरतित्थे णोतित्थयरसिद्धा संखेज्जगुणा"[सि.प्रा.]
नपुंसकलिङ्गसिद्धास्तु तीर्थकरसिद्धा न भवन्त्येव, प्रत्येकबुद्धसिद्धास्तु पुँल्लिङ्गसिद्धा
एव।
स्वलिङ्गेन रजोहरणादिना द्रव्यलिङ्गेन सिद्धाः स्वलिङ्गसिद्धाः । अन्येषां परिव्राजकादीनां लिङ्गेन सिद्धा अन्यलिङ्गसिद्धाः । गृहिलिङ्गसिद्धा मरुदेव्यादयः । एकैकस्मिन समये एकाकिनः सिद्धाः एकसिद्धा । एकस्मिन् समये अष्टोत्तरं शतं यावत् सिद्धा अनेकसिद्धाः । यत उक्तम् - "बत्तीस अडयाला, सट्ठी बावत्तरी अ बोद्धव्वा । चुलसीई छन्नउई, दुरहियमद्रुत्तरसयं च" ॥१॥ [ जी.स.२४९/बृ.सं./३३३]
जहपकमेणं ति दारं" ॥१००॥ इति सटीके सिद्धप्राभृते पाठ: पृ० २३॥ यत उक्तं "सिद्धप्राभते-"सव्वत्थोवा तित्थयरिसिद्धा, तित्थयरितित्थे णोतित्थयरसिद्धा असंखेज्जगणा, तित्थयरितित्थे णोतित्थयरिसिद्धा असंखेज्जगुणाओ" [ ] इति इति आचार्य श्री हरिभद्रसूरिविरचितायां ललितविस्तरायां पाठः ।
यत उक्तं "सिद्धप्राभृते -सव्वत्थोवा तित्थगरीसिद्धा, तित्थगरितित्थे णोतित्थसिद्धा संखेज्जगुणा तित्थगर (रि ? ) तित्थे णोतित्थगरिसिद्धाओ संखेज्जगुणाओ तित्थगरितित्थे णोतित्थगरसिद्धा संखेज्जगुणा' [ ] इति । इति आचार्य श्रीहरिभद्रसूरिविरचितायां नन्दीवृत्तौ पाठः । “इहानन्तरसिद्धाः सत्पदप्ररुपणा १ द्रव्यप्रमाण २ क्षेत्र ३ स्पर्शना ४ काला ५ ऽन्तर ६ भावा ७ऽल्पबहुत्व ८ रुपैरष्टभिरनुयोगद्वारैः परम्परसिद्धाः सत्पदप्ररूपणा १ द्रव्यप्रमाण २ क्षेत्र ३ स्पर्शना ४ काला ५ ऽन्तर ६ भावा ७ ऽल्पबहुत्व ८ सन्निकर्ष ९ रुपैर्नवभिरनुयोगद्वारैः क्षेत्रादिषु पञ्चदशसु द्वारेषु सिद्धप्राभृते चिन्तिताः, तत्स्तदनुसारेण वयमपि विनेयजनानुग्रहार्थं लेशतश्चिन्तयामः [पृ० ११३]... नोतीर्थसिद्धाः प्रत्येकबुद्धाः [पृ० १२२] तीर्थद्वारे सर्वस्तोकाः तीर्थकरीसिद्धाः, ततः तीर्थकरीतीर्थे प्रत्येकबुद्धसिद्धाः संख्येयगुणाः, तेभ्योऽपि तीर्थकरीतीर्थेऽतीर्थकरीसिद्धाः संख्येयगुणाः तेभ्योऽपि तीर्थकरीतीर्थे एवातीर्थकरसिद्धाः संख्येयगुणाः, तेभ्यः तीर्थकरसिद्धा अनन्तगुणाः, तेभ्योऽपि तीर्थकरतीर्थे प्रत्येकबुद्धसिद्धाः संख्येयगुणाः तेभ्योऽपि तीर्थकरतीर्थ एव साध्वीसिद्धाः संख्येयगुणाः तेभ्योऽपि तीर्थकरतीर्थे एवातीर्थकरसिद्धाः संख्येयगुणाः [पृ० १२६]" इति मलयगिरिसूरिविरचितायां नन्दीसूत्रटीकायाम्" । इति योगशास्त्रे टिप्पणम् पृ०६४३-४॥
D:\new/d-2.pm5\3rd proof