SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ २८४] [धर्मसंग्रहः-द्वितीयोऽधिकारः पत्तेयबुद्धसिद्धा, बुद्धबोहिअसिद्धा, थीलिंगसिद्धा, पुरिसलिंगसिद्धा, नपुंसगलिंगसिद्धा, सलिंगसिद्धा, अन्नलिंगसिद्धा, गिहिलिंगसिद्धा, एगसिद्धा, अणेगसिद्धा" । [ प्रज्ञापनासूत्रे १।१६] ॥ तत्र तीर्थे चतुर्विधश्रमणसङ्के उत्पन्ने सति ये सिद्धास्ते तीर्थसिद्धाः । ___ अतीर्थे जिनान्तरे साधुव्यवच्छेदे सति जातिस्मरणादिना अवाप्तापवर्गमार्गाः सिद्धा अतीर्थसिद्धाः, मरुदेवीप्रभृतयो वा तदा तीर्थस्यानुत्पन्नत्वात् । तीर्थकरसिद्धाः तीर्थकरत्वमनुभूय सिद्धाः । अतीर्थकरसिद्धाः सामान्यकेवलित्वे सति सिद्धाः । स्वयंबुद्धाः सन्तो ये सिद्धाः ते स्वयंबुद्धसिद्धा । प्रत्येकबुद्धाः सन्तो ये सिद्धास्ते प्रत्येकबुद्धसिद्धाः । स्वयंबुद्धप्रत्येकबुद्धयोश्च बोध्युपधि - श्रुतलिङ्गकृतो विशेषः, स्वयंबुद्धा बाह्यप्रत्ययमन्तरेण बुध्यन्ते, प्रत्येकबुद्धाः पुनर्बाह्यप्रत्ययेन वृषभादिना करकण्डवादिवत् । उपधिस्तु स्वयंबुद्धानां पात्रादिादशधा, प्रत्येकबुद्धानां प्रावरणव| नवविधः । स्वयंबुद्धानां पूर्वाधितश्रुते न नियमः, प्रत्येकबुद्धानां तु नियमतो भवत्येव । लिङ्गप्रतिपत्तिस्तु स्वयंबुद्धानां गुरुसन्निधावपि भवति, प्रत्येकबुद्धानां देवता लिङ्गं प्रयच्छति । बुद्धा आचार्या अवगतत्त्वाः तैर्बोधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः । ____एते च सर्वेऽपि केचित् स्त्रीलिङ्गसिद्धाः, केचित्पुंल्लिङ्गसिद्धाः, केचिन्नपुंसकलिङ्गसिद्धाः । ननु तीर्थकरा अपि किं स्त्रीलिङ्गसिद्धा भवन्ति ? भवन्त्येव । यत उक्तं सिद्धप्राभृते –“सव्वथोवा तित्थयरिसिद्धा, तित्थयरितित्थे नोतित्थयरसिद्धा असंखेज्जगुणा, १. प्रत्येकबुद्धास्तु बाह्य इति योगशास्त्रवृत्तौ प० ६४२ ॥ २. तेऽनियमः-इति योगशास्त्रवृत्तौ प० ६४२ ॥ ३. 'नां तु देव इति योगशास्त्रवृत्तौ प० ६४२ ॥ ४. "सव्वत्थोवा तित्थयरिसिद्धा, तित्थयरितित्थे नोतित्थयरसिद्धा (नोतित्थसिद्धा ?) असंखेज्जगुणा, तित्थयरितित्थे नोतित्थयरिसिद्धाओ असंखेज्जगुणाओ तित्थयरितित्थे नोतित्थयरसिद्धा असंखेज्जगुणा" इति योगशास्त्रवृत्तौ प० ६३४-४ । “अत्रेदमवधेयम् -निम्नदर्शितरूपा विविधाः पाठभेदा अत्रोपलभ्यन्ते । “तित्थदारमाह-थोवा तित्थगरीओ अतित्थसिद्धा य साहूणी साहू ? कमसो संखा तित्थंकरा अणंता पुणो संखा ॥१००॥ [टीका-] तित्थदारं ॥ थोवा तित्थगरीओ गाहा । सव्वत्थोवा तित्थगरिसिद्धा १, तित्थगरितित्थे णोतित्थसिद्धा संखेज्जगुणा २, तित्थगरितित्थे णोतित्थगरिसिद्धाओ संखेज्जगुणा ३, तित्थगरितित्थे णोतित्थगरसिद्धा संखेज्जगुणा ४। तेहितो तित्थगरा अणंतगुणा, पुणो संखगुणा तिण्णि भंगा D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy