________________
'सिद्धाणं बुद्धाणं' सूत्रविवरणम्-श्लो० ६१॥]
[२८३ एते च कैश्चिदनियतदेशा अभ्युपगम्यन्ते - "यत्र क्लेशक्षयस्तस्य, विज्ञानमवतिष्ठते ।
बाधा च सर्वथास्येह, तदभावान्न जातुचिद्" ॥१॥[ ] इति वचनात् । एतन्निरासायाह –'लोकाग्रमुपगतेभ्यः' लोकाग्रमीषत्प्रारभाराख्यायाः पृथिव्या उपरि क्षेत्रं तदुप सामीप्येन तदपराभिन्नदेशतया निःशेषकर्मक्षयपूर्वकं गताः प्राप्ताः । उक्तं च - "जत्थ य एगो सिद्धो, तत्थ अणंता भवक्खयविमुक्का । अण्णोण्णमणाबाहं, चिटुंति सुही सुहं पत्ता" ॥१॥[ आ.नि./९७५ ] तेभ्यः ।
ननु क्षीणकर्मणो जीवस्य कथं लोकाग्रं यावद् गतिः ? उच्यते, पूर्वप्रयोगादियोगात् । "पूर्वप्रयोगसिद्धेर्बन्धच्छेदादसङ्गभावाच्च । गतिपरिणामाच्च तथा, सिद्धस्योर्ध्वं गतिः सिद्धा" ॥१॥[ प्रश./श्लो.२९५ ]
ननु सिद्धक्षेत्रात् परतोऽधस्तिर्यग्वा कस्मान्न गच्छति ? अत्राप्युक्तम् - "नाधो गौरवविगमादसङ्गभावाच्च गच्छति विमुक्तः ।
लोकान्तादपि न परं, प्लवक इवोपग्रहाभावात् ॥१॥[प्रश./श्लो.२९३] "योगप्रयोगयोश्चाभावात् तिर्यग् न तस्य गतिरस्ति । तस्मात् सिद्धस्योर्ध्वं, ह्यालोकान्ताद् गतिर्भवति" ॥२॥ [ प्रश. श्लो.२९४] इति ।
'नमः सदा सर्वसिद्धेभ्यः' नमोऽस्तु सदा सर्वकालम् , सर्वसिद्धेभ्यः सर्वं साध्यं सिद्धं येषां ते सर्वसिद्धास्तेभ्यः, अथवा सर्वसिद्धेभ्यः तीर्थसिद्धादिभेदेभ्यः । यथोक्तम् –
"तित्थसिद्धा, अतित्थसिद्धा, तित्थयरसिद्धा, अतित्थयरसिद्धा, सयंबुद्धसिद्धा,
१. "गाथेयं ललितविस्तरायामित्थमेवोद्धृता, किन्तु दिव्यदर्शनसाहित्यसमित्या प्रकाशितायां ललितविस्तरायाम् “अन्नोन्नसमोगाढा पुट्ठा सव्वे य लोगंते" । इति उत्तरार्द्धं प्रत्यन्तरपाठत्वेन निर्दिष्टं वर्तते इत्यपि ध्येयम् । गाथेयम् आचार्यश्री हरिभद्रसूरिविरचिते विंशतिविंशतिकाप्रकरणे १९तम्यां सिद्धविभक्तिर्विशिकायां [गा० २०], २०तम्यां सिद्धसुखविंशिकायाम् [गा० १८] अपि वर्तते । आवश्यकनिर्युक्तौ तु “जत्थ य एगो सिद्धो तत्थ अणंता भवक्खयविमुक्का । अन्नोन्नसमोगाढा पुट्ठा सव्वे अ लोगंते ॥९७५।।...इअ सव्वं कालतित्ता अउलं निव्वाणमुवगया सिद्धा । सासयमव्वाबाहं चिटुंति सुही सुहं पत्ता ॥९६८॥ इति पाठ:-' इति योगशास्त्रे टिप्पणम् पत्र ६४०, टि० ३॥ २. पूर्वप्रयोगात् यदाह- ॥ ३. न्ति-इति योगशास्त्रवृत्तौ प० ६४१ ॥ ४. मादशक्यभावाच्च-इति प्रशमरतौ ॥ ५. तस्मात् सिद्धस्योर्ध्वं मुक्तस्यालोकान्ताद् गतिर्भवति-इति प्रशमरतौ ।।
D:\new/d-2.pm5\3rd proof