________________
२८२]
[धर्मसंग्रहः-द्वितीयोऽधिकारः "कम्मे सिप्पे य विज्जा य मंते जोगे य आगमे।
अत्थ-जत्ता अभिप्पाए, तवे कम्मक्खए इय" ॥१॥[] तत्र कर्माचार्योपदेशरहितं भारवहन-कृषि-वाणिज्यादि, तत्र सिद्धः परिनिष्ठितः सह्यगिरिसिद्धवत् । शिल्पं त्वाचार्योपदेशजं तत्र सिद्धः कोकासवार्द्धकिवत् । विद्या जपहोमादिना फलदा, मन्त्रो जपादिरहितः पाठमात्रसिद्धः, स्त्रीदेवताधिष्ठाना (वा) विद्या, पुरुषदेवताधिष्ठानस्तु मन्त्रः । तत्र विद्यासिद्धः आर्यखपुटवत् , मन्त्रसिद्ध स्तम्भाकर्षकवत् । योग ओषधिसंयोगः तत्र सिद्धो योगसिद्धः आर्यसमितवत् । आगमो द्वादशाङ्गं प्रवचनं तत्रासाधारणार्थावगमात् सिद्धः आगमसिद्धो गौतमवत् । अर्थो धनं स इतरासाधारणो यस्य सोऽर्थसिद्धो मम्मणवणिग्वत् । जले स्थले वा यस्याविघ्ना यात्रा स यात्रासिद्धः तुण्डिकवत् । यमर्थमभिप्रेति तमर्थं तथैव यः साधयति सोऽभिप्रायसिद्धोऽभयकुमारवत् । यस्य सर्वोत्कृष्टं तपः स तप:सिद्धो दृढप्रहारिवत् । यः कर्मक्षयेण ज्ञानावरणीयाद्यष्टकर्मनिर्मूलनेन सिद्धः स कर्मक्षयसिद्धो मरुदेवीवत् । अतः कर्मादिसिद्धव्यपोहेन कर्मक्षयसिद्धपरिग्रहार्थमाह 'बुद्धेभ्यः' अज्ञाननिद्राप्रसुप्ते जगति अपरोपदेशेन जीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः बुद्धत्वानन्तरं कर्मक्षयं कृत्वा सिद्धा इत्यर्थः, तेभ्यः ।
एते च संसारनिर्वाणोभयपरित्यागस्थितिमन्तः कैश्चिदिष्यन्ते - ___ "न संसारे न निर्वाणे, स्थितो भ( भु)वनभूतये ।
अचिन्त्यः सर्वलोकानां, चिन्तारत्नाधिको महान्" ॥[] इति वचनात् । एतन्निरासायाह –'पारगतेभ्यः' पारं पर्यन्तं संसारस्य प्रयोजनव्रातस्य वा गताः पारगतास्तेभ्यः ।
एते च यदृच्छावादिभिः कैश्चिद्दरिद्रराज्याप्तिवदक्रमसिद्धत्वेनाभिधीयन्ते, तद्व्दासार्थमाह-'परम्परगयाणं' परम्परया चतुर्दशगुणस्थानक्रमारोहरूपया अथवा कथञ्चित् कर्मक्षयोपशमादिसामग्र्या सम्यग्दर्शनम् , तस्मात् सम्यग्ज्ञानम् , तस्मात् सम्यक्चारित्रमित्येवम्भूतया 'गताः' मुक्तिस्थान प्राप्ताः परम्परागतास्तेभ्यः ।
१. ए-इति योगशास्त्रवृत्तौ प- ६३८ ॥ २. विस्तरेण जिज्ञासुभिः द्रष्टव्या आवश्यकसूत्रस्य मलयगिरिया वृत्तिः ।। ३. कोकासवर्ध इति योगशास्त्रवृत्तौ प० ६३८ । ४. ना विद्या-L.P.C. । ना वा विद्या-इति योगशास्त्रवृत्तौ प० ६३८ ॥ ५. औषधसंयोगः-इति योगशास्त्रवृत्तौ प० ६३८ ॥ ६. भवन L.P.C. I भुवन योगशास्त्रवृत्तौ प०६३९ ॥
D:\new/d-2.pm5\3rd proof