________________
'सिद्धाणं बुद्धाणं' सूत्रविवरणम् - श्लो० ६१ ॥ ]
[ २८१
'सदा' सर्वकालम्, 'संयमे' चारित्रे भूयात् । उक्तं च -' पढमं नाणं तओ दया' [ दशवैकालिके ४-९० ] किंविशिष्टे संयमे ? 'देवनागसुपर्णकिन्नरगणैः सद्भूतभावेनार्चिते' देवा वैमानिनः, नागा धरणादयः, सुपर्णा गरुडा:, किन्नरा व्यन्तरविशेषाः, उपलक्षणं शेषाणाम्, देवमित्यनुस्वारश्छन्दः पूरणे, तथा च संयमवन्तोऽर्च्यन्त एव देवादिभिः । यत्र जिनमते, किं यत्र ? लोकनं लोको ज्ञानम्, प्रतिष्ठितस्तद्वशीभूतः, तथा जगदिदं ज्ञेयतया प्रतिष्ठितमिति योगः । केचिन्मनुष्यलोकमेव जगन्मन्यन्ते अत आह—' त्रैलोक्यमर्त्यासुरम्, आधाराधेयरूपम्, अयमित्थम्भूतो 'धर्मः ' श्रुतधर्मो 'वर्द्धतां' वृद्धिमुपयातु, शाश्वत क्रियाविशेषणं शाश्वतमप्रच्युत्या, वर्द्धतामिति, 'विजयतः ' परप्रवादिविजयेन, 'धर्मोत्तरं ' चारित्रधर्मोत्तरं चारित्रधर्मप्राधान्यं यथा स्यादित्यर्थः । 'वर्द्धतां' पुनर्वृद्ध्यभिधानं मोक्षार्थिना प्रत्यहं ज्ञानवृद्धिः कार्येति प्रदर्शनार्थम् । तथा च तीर्थकरनामकर्म्महेतून् प्रतिपादयतोक्तम् ।
“अपुव्वनाणगहणे” [ आवश्यकनिर्युक्तौ १८१ ] इति । प्रणिधानमेतन्मोक्षबीजकल्पं परमार्थतोऽनाशंसारूपमेवेति प्रणिधानं कृत्वा श्रुतस्यैव वन्दनाद्यर्थं कायोत्सर्गार्थं पठति पठन्ति वा
-
"सुअस्स भगवओ करेमि काउस्सग्गमित्यादि वोसिरामि" इति यावत् । अर्थः पूर्ववत्, नवरं - ' श्रुतस्य' इति प्रवचनस्य सामायिकादेर्बिन्दुसारपर्यन्तस्य 'भगवतो' यशोमाहात्म्यादियुक्तस्य । ततः कायोत्सर्गकरणम्, पूर्ववत् पारयित्वा श्रुतस्य स्तुतिं पठति । "सुअनाणत्थयरूवो, अहिगारो होइ एस सत्तमओ ।
इह पय संपय सोलस, नवुत्तरा वण्ण दुन्निसया" ॥१॥ [ ]
चतुर्थो दण्डकः । ततश्चानुष्ठानपरम्पराफलभूतेभ्यः सिद्धेभ्यो नमस्कारकरणायेदं पठति पठन्ति वा -
"सिद्धाणं बुद्धाणं, पारगयाणं परंपरगयाणं ।
लोअग्गमुवगयाणं, नमो सया सव्वसिद्धाणं" ॥१॥ []
सिद्ध्यन्ति स्म सिद्धाः, ये येन गुणेन निष्पन्ना परिनिष्ठिताः सिद्धौदनवन्न पुनः साधनीया इत्यर्थः, तेभ्यो नम इति योगः । ते च सामान्यतः कर्मादिसिद्धा अपि भवन्ति । यथोक्तम् -
१. विमा° इति योगशास्त्रवृत्तौ प० ६३६ ।। २. परमार्थतो नाशंसा' मु० ॥ ३. दृश्यताम् आवश्यकचूर्णिः प० २६२, आवश्यकहारिभद्रीयवृत्तिः प० ७८९, ललितविस्तरा प० १०६ ॥
D:\new/d-2.pm5\ 3rd proof