SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ २७८ ] [ धर्मसंग्रहः - द्वितीयोऽधिकारः " पञ्चम्यास्तृतीया च " [ श्रीसि० ८-३-१३६ ] इति पञ्चम्यर्थे सप्तमी, अतश्चन्द्रेभ्यो निर्मलतराः, सकलकर्ममलापगमात् । पाठान्तरं वा 'चंदेहिं निम्मलयरा' । एवमादित्येभ्यः अधिकं प्रकाशकराः, केवलोद्योतेन लोकालोकप्रकाशकत्वात् । उक्तं च – "चंदाइच्चगहाणं, पहा पयासेइ परिमियं खित्तं । केवलियनाणलंभो, लोआलोअं पयासेइ" ॥१॥ [ आ.नि./ ११०२] सागरवरः स्वयम्भूरमणाख्यः समुद्रः परीषहोपसर्गाद्यक्षोभ्यत्वात् तस्मादपि गम्भीराः, सिद्धाः कर्मविगमात् कृतकृत्याः, सिद्धिं परमपदप्राप्तिम् मम दिशन्तु प्रयच्छन्तु । "अडवीसपयपमाणा, इह संपय वण्ण दुसयछप्पन्ना । " नामजिणत्थयरूवो चउत्थओ एस अहिगारो" ॥१॥[ ] इति नामार्हद्वन्दनाधिकाररूपश्चतुर्थोऽधिकारस्तृतीयो दण्डकः । - ऐवं चतुर्विंशतिस्तवमुक्त्वा सर्वलोक एवार्हच्चैत्यानां वन्दनाद्यर्थं कायोत्सर्गकरणायेदं पठति पठन्ति वा – " सव्वलोए अरिहंतचेइयाणं करेमि काउस्सग्गमित्यादि वोसिरामि' इति यावत् । व्याख्या पूर्ववत् । नवरं - सर्वश्चासौ लोकश्च अधऊर्ध्वतिर्यग्भेदस्तस्मिंस्त्रैलोक्य इत्यर्थः, अधोलोके हि चमरादिभवनेषु, तिर्यग्लोके द्वीपाचलज्योतिष्कविमानादिषु, ऊर्ध्वलोके सौधर्मादिषु सन्त्येवार्हच्चैत्यानि । ततश्च मौलचैत्यं समाधिकारणमिति मूलप्रतिमायाः प्राक् स्तुतिरुक्ता । इदानीं सर्वे अर्हन्तस्तद्गुणा इति सर्वलोकग्रहः, तदनुसारेण सर्वतीर्थकरसाधारणी स्तुतिः । अन्यथा अन्यकायोत्सर्गेऽन्या स्तुतिरिति न सम्यग् अतिप्रसङ्गात्, इति सर्वतीर्थकराणां स्तुतिरुक्ता । एष सर्वलोकस्थापनार्हत्स्तवरूपः पञ्चमोऽधिकारः । "" इदानीं येन ते भगवन्तस्तदभिहिताश्च भावाः स्फुटमुपलभ्यन्ते तत्प्रदीपस्थानीयं सम्यक् श्रुतमर्हति कीर्त्तनम्, तत्रापि तत्प्रणेतृन् भगवतस्तत्प्रथमं स्तौति - "पुक्खरवरदीवड्ढे, धायइसंडे य जंबुदीवे य । भररवयविदेहे, धम्माइगरे नम॑सामि ॥१॥ भरतं भरतक्षेत्रम्, ऐरवतमैरवतक्षेत्रम्, विदेहमिति 'भीमो भीमसेन' इति न्यायात् १. तुला-ललितविस्तरा प० ९६ । २. तुला - आवश्यकचूर्णि: प० २५७, आवश्यकहरिभद्रीवृत्तिः प० ७८७ ॥ ३. मौलं चैत्यं - इति ललितविस्तरायां प० ९७ A ॥ ४. स्तुतिरुक्ता-L. ॥ ५. तुला- आवश्यकचूर्णिः प० २५८, आवश्यकहारिभद्रीवृत्तिः प० ७८८, ललितविस्तरा प० ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy