________________
'पुक्खरवरदी' सूत्रविवरणम्-श्लो० ६१॥]
[२७९ महाविदेहक्षेत्रं एवं समाहारद्वन्द्वः तेषु भरतैरवतविदेहेषु , 'धर्मस्य' श्रुतधर्मस्य, 'आदिकरान्' सूत्रतः प्रथमकरणशीलान् ‘नमस्यामि' स्तुवे।क्व तानि भरतैरवतमहाविदेहक्षेत्राणि? इत्याह - पुष्पकराणि पद्मानि, तैर्वर पुष्करवरः, स चासौ द्वीपश्च पुष्कररवरद्वीपस्तृतीयो द्वीपस्तस्यार्द्ध मानुषोत्तरचलादर्वाग्भागवति, तत्र द्वे भरते द्वे ऐरवते द्वे महाविदेहे तथा धातकीनां खण्डानि वनानि यस्मिन् स धातकीखण्डो द्वीपस्तस्मिन् द्वे भरते द्वे ऐरवते द्वे महाविदेहे । जम्ब्वा उपलक्षितस्तत्प्रधानो वा द्वीपो जम्बूद्वीपः, अत्रैकं भरतमेकमैरवतमेकं च महाविदेहमित्येताः पञ्चदश कर्मभूमयः । शेषास्त्वकर्मभूमयः । यदाह –“भरतैरवतविदेहाः कर्मभूमयोऽन्यत्र देवकरूत्तरकरुभ्यः" श्रीतत्त्वा० अ०३-१६ ]महत्तरक्षेत्रप्राधान्याङ्गीकरणाच्च पश्चानपा निर्देशः। धर्मादिकरत्वं च वचनापौरुषेयत्वनिराकरणादेव व्यक्तम्। उक्तं च -"इणमच्चंतविरुद्धं, वयणं चापोरुसेअंच"[ ]त्ति।
नन्वेवमपि कथं धर्मादिकरत्वं भगवताम् ? "तप्पुब्विआ अरहया''[आवश्यकनियुक्ती गा० ५६७ ] इति वचनात् वचनस्यानादित्वात् ? नैवम् , बीजाङ्करवत्तदुपपत्तेः, बीजाद्धि अङ्करो भवति, अङ्कराच्चबीजमिति । एवं भगवतां पूर्वजन्मनि श्रुतधर्माभ्यासात् तीर्थकरत्वम् , तीर्थकृतां च श्रुतधर्मादिकरत्वमदुष्टमेव । न चैवमपि वचनपूर्वकमेव सर्वज्ञत्वमिति नियमः, मरुदेव्यादौ व्यभिचारादिति वाच्यम् । इत्थमपि शब्दरूपवचनपूर्वकत्वनियमाभावेऽपि अर्थपरिज्ञानरूपवचनपूर्वकत्वनियमस्याव्याहतत्वादित्यलं प्रसङ्गेन । एवं श्रुतधर्मादिकराणां स्तुतिरुक्ता, एष षष्ठोऽधिकारः । इदानीं श्रुतधर्मस्याह - "तमतिमिरपडलविद्धंसणस्स सुरगणनरिंदमहिअस्स ।
सीमाधरस्स वंदे, पप्फोडियमोहजालस्स" ॥२॥ तमोऽज्ञानम् , तदेव तिमिरम् , अथवा बद्ध-स्पृष्ट-निधत्तं ज्ञानावरणीयं कर्म तमः, निकाचितं तिमिरम् ततस्तमस्तिमिरस्य, तमस्तिमिरयोर्वा पटलं वृन्दम् , तद्विध्वंसयति विनाशयतीति "नन्द्यादित्वादने" [श्रीसि०५-१-१२ ] तमस्तिमिरपटलविध्वंसनस्तस्य, अज्ञाननिरासेनैवास्य प्रवृत्तेः। 'सुरगणैः' चतुर्विधामरनिकायैः 'नरेन्द्रैः' चक्रवर्त्यादिभिः 'महितः' पूजितस्तस्य । आगममहिमां हि कुर्वन्त्येव सरादयः । सीमां मर्यादां धारयतीति सीमाधरस्तस्य, श्रुतधर्मस्य इति विशेष्यम् , ततः कर्मणि द्वितीया, तस्याश्च "क्वचिद् द्वितीयादेः'' [ श्रीसि० ८-३-१३४] इति प्राकृतसूत्रात् षष्ठी, अतस्तं वन्दे । तस्य वा
१. एवं (षां) समा मु० | L.P.C. । योगशास्त्रवृत्तावपि [प० ६३३] एवं समा० इति ।। २. क्व त्यानि-मु० । क्व यानि-इति योगशास्त्रवृत्तौ प० ६३३ ॥ ३. मर्यादां सीमायां वा धार इति योगशास्त्रवृत्तौ प० ६३५ ।। ४. श्रुतधर्म इति-इति योगशास्त्रवृत्तौ प० ६३५ ॥
D:\new/d-2.pm5\3rd proof