________________
'लोगस्स' सूत्रविवरणम्-श्लो० ६१॥]
[२७७ अथवा ऐर्यापथं रजः साम्परायिकं मलमिति । यतश्चैवम्भूता अत एव 'प्रक्षीणजरामरणा:' कारणाभावात् 'चतुर्विंशतिरपि', अपिशब्दादन्येऽपि, 'जिनवरा:' श्रुतादिजिनेभ्यः प्रकृष्टाः, ते च 'तीर्थकरा' इति पूर्ववत् , 'मे' मम, किम् । ? 'प्रसीदन्तु' प्रसादपरा भवन्तु । ते च वीतरागत्वाद्यद्यपि स्तुतास्तोषम् , निन्दिताश्च द्वेषं न यान्ति, तथाऽपि स्तोता स्तुतिफलं निन्दकश्च निन्दाफलमाप्नोत्येव, यथा चिन्तामणिमन्त्राद्याराधकः । यदुक्तं वीतरागस्तवे श्रीहेमसूरिभिः -
"अप्रसन्नात् कथं प्राप्यं फलमेतदसङ्गतम्। चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः ?" ॥१॥[वी.स्त.१९।३] इति ।
अथ यदि न प्रसीदन्ति तत् किं प्रसीदन्त्विति वृथा प्रलापेन ?, नैवम् , भक्त्यतिशयेन एवमभिधानेऽपि न दोषः । यदाह - "क्षीणक्लेशा एते, न हि प्रसीदन्ति न स्तवोऽपि वृथा।
तत्स्वभावविशुद्धेः, प्रयोजनं कर्मविगम इति" ॥१॥[ ] तथा- "कित्तियवंदियमहिआ, जेए लोगस्स उत्तमा सिद्धा।
आरोग्गबोहिलाभं, समाहिवरमुत्तमं दितु" ॥६॥[] 'कीर्तिताः' स्वनामभिः प्रोक्ताः, 'वन्दिताः' त्रिविधयोगेन सम्यग् स्तुताः, 'महिताः' पुष्पादिभिः पूजिता । मइआ इति पाठान्तरम् तंत्र मया, क एते ? इत्याह – ‘य एते' 'लोकस्य' प्राणिवर्गस्य कर्ममलकलङ्काभावेनोत्तमाः प्रकृष्टाः, सिद्ध्यन्ति स्म सिद्धाः कृतकृत्या इत्यर्थः, अरोगस्य भाव आरोग्यं सिद्धत्वम् तदर्थं बोधिलाभ अर्हत्प्रणीतधर्मप्राप्तिरारोग्यबोधिलाभः, स ह्यनिदानो मोक्षायैव भवति तम् तदर्थं च समाधिवरं वरसमाधि परमस्वास्थ्यरूपं भावसमाधिमित्यर्थः । असावपि तारतम्यभेदादनेकधैव अत आह - 'उत्तमं' सर्वोत्कृष्टम् , 'ददतु' प्रयच्छन्तु , एतच्च भक्त्योच्यते । यत उक्तम् -
"भासा असच्चमोसा. नवरं भत्तीड भासिआ एसा।
न हु खीणपेज्जदोसा, दिति समाहिं च बोहिं च" ॥१॥ [ आ.नि./११०८] तथा- "चंदेसु निम्मलयरा, आइच्चेसु अहियं पयासयरा ।
सागरवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु" ॥८॥
१. भक्त्यतिशयत-इति योगशास्त्रवृत्तौ प० ६३० ॥ २. तत्स्वभाव(स्वाभाव्य)विशुद्धः मु० । तत्स्वभावभाव(सद्भाव)विशुद्धेः-इति ललितविस्तरायां प० ९३ । L.P.C. योगशास्त्रवृत्तावपितत्स्वभावविशुद्धः-इति ।। ३. तत्र मयका मया एते? इति योगशास्त्रवृत्तौ प० ६३१ ॥
D:\new/d-2.pm5\3rd proof