SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ 'लोगस्स' सूत्रविवरणम्-श्लो० ६१॥] [२७३ "उसभमजियं च वंदे, संभवमभिनंदणं च सुमइं च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥२॥ सुविहिं च पुप्फदंतं, सीयल-सिज्जंस-वासुपुज्जं च । विमलमणंतं च जिणं, धम्मं संतिं च वंदामि ॥३॥ कुंथु अरं च मल्लि, वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिट्ठनेमि, पासं तह वद्धमाणं च" ॥४॥ समुदायः सुगमार्थः । पदार्थस्तु विभज्यते -स च सामान्यतो विशेषतश्च । तत्र सामन्यतः ऋषति गच्छति परमपदमि ति ऋषभः, "उदृत्वादौ' [ श्रीसि० ८-१-१३१] इत्युत्त्वे उसहो । वृषभ इत्यपि, वर्षति सिञ्चति देशनाजलेन दुःखाग्निना दग्धं जगदिति अस्यान्वर्थः, "वृषभे वा वा"[श्रीसि० ८-१-१३२] इति वकारेण ऋत उत्त्वे अस्यापि उसहो । विशेषतस्तु ऊर्वोवृषभो लाञ्छनमभूद् भगवतः, जनन्या च चतुर्दशानां स्वप्नानां आदावृषभो दृष्टः, तेन ऋषभो वृषभो वा ।१। परीषहादिभिरनिर्जित इत्यजितः । तथा गर्भस्थे भगवति जननी छुते राज्ञा न जितेत्यजितः ।। सम्भवन्ति प्रकर्षेण भवन्ति चतुस्त्रिंशदतिशयगुणा अस्मिन्निति सम्भवः, शं सुखं भवत्यस्मिन् स्तुते इति शम्भवो वा, तत्र "शषोः सः" [ श्रीसि० ८-१-२६० ] इति सत्वे सम्भवः । तथा गर्भागतेऽप्यस्मिन्नभ्यधिकसस्यसम्भवात् सम्भवः ।३। अभिनन्द्यते देवेन्द्रादिभिरित्यभिनन्दनः, तथा गर्भात् प्रभृत्येवाभीक्ष्णं शक्राभिनन्दनादभिनन्दनः ।४। __सु शोभना मतिरस्येति सुमतिः, तथा गर्भस्थे जनन्याः सुनिश्चिता मतिरभूदिति सुमतिः ॥५॥ निष्पङ्कतामङ्गीकृत्य पद्मस्येव प्रभा यस्यासौ पद्मप्रभः, तथा पद्मशयनदोहदो मातुर्देवतया पूरित इति, पद्मवर्णश्च भगवानिति पद्मप्रभः ।६। शोभनानि पार्थान्यस्येति सुपार्श्वः, तथा गर्भस्थे भगवति जनन्यपि सुपार्खा जातेति सुपार्श्वः ॥७॥ १. शक्राद्यभि इति योगशास्त्रवृत्तौ प० ६२४ ॥ २. शोभनाः पार्वा अस्येति-इति योगशास्त्रवृत्तौ प०६२४ ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy