________________
२७४]
[धर्मसंग्रहः-द्वितीयोऽधिकारः चन्द्रस्येव प्रभा ज्योत्स्ना सौम्यलेश्याविशेषोऽस्येति चन्द्रप्रभः, तथा देव्याश्चन्द्रपानदोहदोऽभूच्चन्द्रसमवर्णश्च भगवानिति चन्द्रप्रभः ।८।
शोभनो विधिः सर्वत्र कौशलमस्येति सुविधिः, तथा गर्भस्थे भगवति जनन्यप्येवमिति सुविधिः । पुष्पकलिकामनोहरदन्तत्वात् पुष्पदन्त इति द्वितीयं नाम ।९।
सकलसत्त्वसन्तापहरणात् शीतलः, तथा गर्भस्थे भगवति पितुः पूर्वोत्पन्नोऽचिकित्स्यपित्तदाहो जननीकरस्पर्शादुपशान्त इति शीतलः ।१०।
सकलभुवनस्यापि प्रशस्यतमत्वेन श्रेयान् , श्रेयांसावंसावस्येति पृषोदरादित्वाच्छ्रेयांसो वा । तथा गर्भस्थेऽस्मिन् केनाप्यनाक्रान्तपूर्वा देवताधिष्ठितशय्या जनन्या आक्रन्तेति श्रेयो जातमिति श्रेयांसः ॥११॥
वसवो देवविशेषास्तेषां पूज्यो वसुपूज्य:, "प्रज्ञादित्वादणि''[ श्रीसि० प्रज्ञादिभ्योऽण् ७-२-१६५] वासुपूज्यः । तथा गर्भस्थेऽस्मिन् वसु हिरण्यं तेन वासवो राजकुलं पूजितवानिति वासुपूज्यः, वसुपूज्यस्य राज्ञोऽयमिति वा "तस्येदम्" [श्रीसि० ६-३-१६० ] इत्यणि वासुपूज्यः ।१२।
विगतमलो विमलानि वा ज्ञानादीन्यस्येति विमलः । तथा गर्भस्थे मातुर्मतिस्तनुश्च विमला जातेति विमलः ।१३।
अनन्तकर्मांशान् जयति, अनन्तैर्वा ज्ञानादिभिर्जयति इति अनन्तजित् । तथा गर्भस्थे जनन्या अनन्तरत्नदाम दृष्टम् । जयति च त्रिभुवनेऽपीति अनन्तजित् , 'भीमो भीमसेन' इति न्यायादनन्त इति ।१४।
दुर्गतौ प्रपतन्तं सत्त्वसङ्घातं धारयतीति धर्मः । तथा गर्भस्थे जननी दानादिधर्मपरा जातेति धर्मः ।१५।
शान्तियोगात् तदात्मकत्वात् तत्तत्कर्तृत्वाद्वा शान्तिरिति । तथा गर्भस्थे पूर्वोत्पन्नाशिवशान्तिरभूदिति शान्तिः ।१६।
कुः पृथ्वी तस्यां स्थितवानिति निरुक्तात् कुन्थुः तथा गर्भस्थे रत्नानां कुन्थुराशि दृष्टवतीति कुन्थुः ।१७।
१. पूर्वत्पन्नाचिकि' इति योगशास्त्रवृत्तौ प० ६२५ ॥ २. रत्नं दाम-इति योगशास्त्रवृत्तौ प० ६२५ ॥ ३. गर्भस्थे जननी रत्नानां कुन्थु राशि इति योगशास्त्रवृत्तौ प०६२६ ॥
D:\new/d-2.pm5\3rd proof