SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २७२] [धर्मसंग्रहः-द्वितीयोऽधिकारः "अरिहं १ वंदण २ सद्धा ३, अन्न ४ सुहुम ५ एव ६ जा ७ ताव ८ । अड पय संपय तेआला, वण्णा दुसय तीसहिआ" ॥२॥[चैत्य./२६] एष स्थापनार्हद्वन्दनाख्यस्तृतीयोऽधिकार । द्वितीयो दण्डकः । कायोत्सर्गश्चाष्टोच्छासमात्रः, न त्वत्र ध्येयनियमोऽस्ति । कायोत्सर्गान्ते च यद्येक एव ततो 'नमो अरिहंताणं' इति नमस्कारेण पारयित्वा यत्र चैत्यवन्दनां कुर्वन्नस्ति तत्र यस्य भगवतः सन्निहितं स्थापनारूपं तस्य स्तुतिं पठति अत बहवस्तत एक एव स्तुतिं पठति, अन्ये तु कायोत्सर्गस्थिता एव शृण्वन्ति, यावत् स्तुतिसमाप्तिः, ततः सर्वेऽपि नमस्कारेण पारयन्तीति । तदन्तरमेतस्यामेवावसर्पिण्यां ये भारते वर्षे तीर्थकृतोऽभूवन् तेषामेकक्षेत्रनिवासादिना आसन्नोपकारित्वेन कीर्तनाय चतुर्विंशतिस्तवं पठति पठन्ति वा - "लोगस्स उज्जोअगरे, धम्मतित्थयरे जिणे। अरहते कित्तइस्सं, चउवीसं पि केवली" ॥१॥ 'अरहंते' इति विशेष्यपदम् , अर्हत उक्तनिर्वचनान् , कीर्तयिष्ये -नामोच्चारणपूर्वकं स्तोष्ये । ते च राज्याद्यवस्थासु द्रव्यार्हन्तो भवन्तीति भावार्हत्त्वप्रतिपादनायाह 'केवलिनः' इति, उत्पन्नकेवलज्ञानान् भावार्हत इत्यर्थः, अनेन ज्ञानातिशय उक्तः । तत्सङ्ख्यामाह - 'चतुर्विंशतिम्' अपिशब्दादन्यानपि। किंविशिष्टान् ? 'लोकस्योद्योतकरान्' लोक्यते प्रमाणेन दृश्यत इति लोकः –पञ्चास्तिकायात्मकस्तस्योद्योतकरणशीलान् , केवलालोकप्रदीपेन सर्वलोकप्रकाशकरणशीलानित्यर्थः । ननु केवलिन इत्यनेनैव गतार्थमेतत् , लोकोद्योतकरणशीला एव हि केवलिनः, सत्यम् , विज्ञानाद्वैतनिरासेनोद्योतादुद्योत्यस्य भेददर्शनार्थम् , लोकोद्योतकरत्वं तत् श्रावकानामुपकाराय, न चानुपकारिणः केऽपि स्तौतीति उपकारकत्वप्रदर्शनायाह –'धर्मतीर्थकरान् । धर्म उक्तस्वरूपः, तीर्यतेऽनेनेति तीर्थम् , धर्मप्रधानं तीर्थं धर्मतीर्थम् , धर्मग्रहणाद् द्रव्यतीर्थस्य नद्यादेः शाक्यादिसम्बन्धिनश्चाधर्मप्रधानस्य परिहारः, तत्करणशीला धर्मतीर्थकरास्तान् , सदेवमनुजासुरायां पर्षदा सर्वभाषापरिणामिन्या वाचा धर्मतीर्थप्रवर्त्तकानित्यर्थः, अनेन पूजातिशयो वागतिशयश्चोक्तः । अपायापगमातिशयमाह 'जिनान्' रागद्वेषादिजेतृनित्यर्थः । यदुक्तं –'कीर्तयिष्यामि' इति तत्कीर्त्तनं कुर्वन्नाह - १. तदनन्तरं तस्या' इति योगशास्त्रवृत्तौ प० ६२१ । पुनरत्रान्तरेऽस्मिन्नेवावसर्पिणीकाले-' इतिललितविस्तरायां पाठः ।। २. तेषामेकैकक्षेत्र C. । तेषामेवैकक्षेत्र इति योगशास्त्रवृत्तौ प० ६२१ ।। ३. तुला-ललितविस्तरा पत्र ८९तः ॥ ४. इति योगशास्त्रवृत्तौ [प० ६२२] नास्ति ॥ ५. केवला लोकदीपेन-इति योगशास्त्रवृत्तौ प० ६२२ ।। D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy