________________
२६८]
[धर्मसंग्रहः-द्वितीयोऽधिकारः "स्थितः शीतांशुवज्जीवः प्रकृत्या शुद्धभावया। ___ चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवत्" ॥१॥ [ यो.दृ.स./१८३]
न कारणाभावे कर्ता तत्फलसाधक इत्यपि नैकान्तिकम् , परनिष्ठितप्लवकस्य तरकाण्डाभावेऽपि प्लवदर्शनात् , इति बुद्धिलक्षणं कारणमन्तरेणापि आत्मनः सर्वज्ञत्वसर्वदर्शित्वसिद्धिः । ___अन्यस्त्वाह -ज्ञानस्य विशेषविषयत्वाद् दर्शनस्य च सामान्यविषयत्वात्तयोः सर्वार्थविषयत्वमयुक्तम् , तदुभयस्य सर्वार्थविषयत्वादिति । उच्यते, न हि सामान्यविशेषयोर्भेद एव, किन्तु त एव पदार्थाः समविषमतया सम्प्रज्ञायमानाः सामान्यविशेषशब्दाभिधेयतां प्रतिपद्यन्ते, ततश्च त एव ज्ञायन्ते त एव दृश्यन्ते इति युक्तं ज्ञानदर्शनयोः सर्वार्थविषयत्वमिति । ____ आह -एवमपि ज्ञानेन विषमताधर्मविशिष्टा एव गम्यन्ते, न समताधर्मविशिष्टा अपि, दर्शनेन च समताधर्मविशिष्टा एव गम्यन्ते, न विषमताधर्मविशिष्टा अपि, ततश्च ज्ञानदर्शनाभ्यां समताविषमतालक्षणधर्मद्वयाग्रहणादयुक्तमेव तयोः सर्वार्थविषयत्वमिति । न, धर्मधर्मिणोः सर्वथा भेदानभ्युपगमात् , ततश्चाभ्यन्तरीकृतसमताख्यधर्माण एव विषमताधर्मविशिष्टा ज्ञानेन गम्यन्ते, अभ्यन्तरीकृतविषमताख्यधर्माण एव च समताधर्मविशिष्टा दर्शनेन गम्यन्त इति ज्ञानदर्शनयो सर्वार्थविषयत्वमिति सर्वज्ञा सर्वदर्शिनश्च, तेभ्यः ।। ___ एते च सर्वेऽपि सर्वगतात्मवादिभिः मुक्तत्वे सति न नियतस्थानस्था एवेष्यन्ते । यदाहुस्ते – "मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत् तापवर्जिताः" । [ ]
तन्निराकरणार्थमाह - "सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं"। 'शिवं' सर्वोपद्रवरहितत्वात्। 'अचलं' स्वाभाविकप्रायोगिकचलनक्रियारहितत्वात् । 'अरुजं' व्याधिवेदनारहितं, तन्निबन्धनयोः शरीरमनसोरभावात् । 'अनन्तम्' अनन्तज्ञानविषययुक्तत्वात् । 'अक्षयं' विनाशकारणाभावात् । सततमनश्वरमित्यर्थः । 'अव्याबाधम्' अकर्मत्वात् । 'अपुनरावृत्ति' न पुनरावृत्तिः -संसारे अवतारो यस्मात् । 'सिद्धिगतिनामधेयं' सिद्धयन्ति निष्ठितार्था भवन्त्यस्यां प्राणिन इति सिद्धिः - लोकान्तक्षेत्रलक्षणा, सैव च गम्यमानत्वाद् गतिः सिद्धिगतिरेव नामधेयं यस्य तत्तथा । तिष्ठन्त्यस्मिन्निति स्थानम् व्यवहारतः सिद्धिक्षेत्रम् । यदाहुः -
१. भावशुद्धया-इति योगशास्त्रवृत्तौ प० ६१५ ॥ २. इत्यप्यनैका इति योगशास्त्रवृत्तौ प० ६१५ ॥ ३. P.C. योगशास्त्रवृत्तौ । बुद्धिलक्षण मु० ॥ ४-५. च-योगशास्त्रवृत्तौ [प० ६१६, ६१७] नास्ति ।। ६. तत्तथा स्थानम् , ति० इति योगशास्त्रवृत्तौ प० ६२७ ॥ ७. सिद्धL. ||
D:\new/d-2.pm5\3rd proof