________________
'नमुत्थुणं' सूत्रविवरणम्-श्लो० ६१॥]
[२६७ एतेऽपि कालकारणवादिभिरनन्तशिष्यैर्भावतोऽतीर्णादय एवेष्यन्ते, "काल एव कृत्स्नं जगदावर्त्तयति"[ ] इतिवचनात् । एतन्निरासायाह -"तिण्णाणं तारयाणं' । सम्यग्ज्ञानदर्शनचारित्रपोतेन भवार्णवं तीर्णवन्तस्तीर्णाः न चैषां तीर्णानां पारगतानामावतः सम्भवति, तद्भावे मुक्त्यसिद्धेः । एवं च न मुक्तः पुनर्भवे भवतीति तीर्णत्वसिद्धिः । एवं तारयन्त्यन्यानपीति तारकास्तेभ्यः । ___एतेऽपि परोक्षज्ञानवादिभिर्मीमांसकभेदैरबुद्धादय एवेष्यन्ते "अप्रत्यक्षा हि नो बुद्धिः, प्रत्यक्षोऽर्थः" [शाबरभाष्य ] इतिवचनात् । एतव्यवच्छेदार्थमाह -बुद्धाण बोहयाणं"। अज्ञाननिद्राप्रसुप्ते जगत्यपरोपदेशेन जीवाजीवादिरूपं तत्त्वं स्वसंविदितेन ज्ञानेन बुद्धवन्तो बुद्धाः । न चास्वसंविदितेन ज्ञानेनार्थज्ञानं सम्भवति । न ह्यदृष्टप्रदीपो बाह्यमर्थं प्रत्यक्ष करोति। न चेन्द्रियवदसंविदितस्यापि ज्ञानस्यार्थप्रत्यक्षीकरणम् , इन्द्रियस्य भावेन्द्रियत्वात् , तस्य च स्वसंविदितरूपत्वात् । यदाह -
क्षोपलम्भस्य, नार्थदृष्टिः प्रसिद्धयति"[ प्रमाणविनिश्चये परिच्छेद-१] एवं च सिद्धं बुद्धत्वम् । एवमपरानपि बोधयन्तीति बोधकास्तेभ्यः । एतेऽपि जगत्कर्तृलीनमुक्तवादिभिः सन्तपनविनेयैस्तत्त्वतोऽमुक्तादय एवेष्यन्ते "ब्रह्मवद् ब्रह्मसङ्गतानां स्थितिः" [ ] इतिवचनात् । एतन्निराचिकीर्षयाऽऽह -मुत्ताणं मोअगाणं"। चतुर्गतिविपाकचित्रकर्मबन्धमुक्तत्वान्मुक्ताः कृतकृत्या निष्ठितार्था इत्यर्थः, न च जगत्कर्त्तरि लये निष्ठितार्थत्वं सम्भवति, जगत्करणेन कृतकृत्यत्वायोगात् , हीनादिकरणे च रागद्वेषानुषङ्गः । न चान्यत्राऽन्यस्य लयः सम्भवति, एकतराभावप्रसङ्गात् । एवं जगत्कर्तरि लयाभावात् मुक्तत्वसिद्धिः । एवं मोचयन्त्यन्यानपीति मोचकास्तेभ्यः ।।
एवं च जिनत्व-जापकत्व-तीर्णत्व-तारकत्व-बुद्धत्व-बोधकत्व-मुक्तत्व-मोचकत्वैः स्वपरहितसिद्धरात्मतुल्यपरफलकर्तृत्वसम्पदष्टमी ।।
एतेऽपि बुद्धियोगज्ञानवादिभिः कापिलैरसर्वज्ञा असर्वदर्शिनश्चेष्यन्ते "बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयते"[ ] इतिवचनात् । एतन्निराकरणायाह -सव्वण्णूणं सव्वदरिसीणं"। सर्वं जानन्तीति सर्वज्ञाः, सर्वं पश्यन्तीत्येवंशीला: सर्वदर्शिनः, तत्स्वभावत्वे सति निरावरणत्वात् । उक्तं च -
१. स्वसंवि इति योगशास्त्रवृत्तौ प० ६१४ ॥ २. "सहोपलम्भनियमादभेदो नीलतद्धियोः अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति" । इति बौद्धाचार्यधर्मकीर्तिविरचितं प्रमाणविनिश्चये प्रथमपरिच्छेदे"-इति योगशास्त्रे टिप्पणम् प० ६१४ ॥ ३. त्वे पि सति-L.P.C. ||
D:\new/d-2.pm5\3rd proof