________________
२६४]
[ धर्मसंग्रहः- द्वितीयोऽधिकारः तत्रैव तत्त्वतः प्रद्योतकरत्वोपपत्तेः, प्रद्योत्यं च सप्तप्रकारं जीवादिवस्तुतत्त्वम्, तत्प्रद्योतकरणं च विशिष्टनामेव पूर्वविदां भवति, तेऽपि षट्स्थानपतिता एव श्रूयन्ते, न च तेषां सर्वेषामेव प्रद्योतः सम्भवति, प्रद्योतो हि विशिष्टा तत्त्वसंवेदनयोग्यता, सा च विशिष्टानामेव भवति । तेन विशिष्टचतुर्दशपूर्वविल्लोकापेक्षया प्रद्योतकराः ।
एवं लोकोत्तमत्वादिभिः पञ्चभिः प्रकारैः परार्थकरणात् स्तोतव्यसम्पदः सामान्येनोपयोगसम्पच्चतुर्थी ।
इदानीमुपयोगसम्पद एवं हेतुसम्पदुच्यते - " अभयदाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं बोहिदयाणं" ।
इह भयं सप्तधा, इहपरलोकाऽऽदानाकस्मादाऽऽजीवमरणाश्लाघाभेदेन । एतत्प्रतिपक्षतोऽभयं विशिष्टमात्मनः स्वास्थ्यं निःश्रेयसधर्मभूमिकानिबन्धनभूतं, 'धृतिः' इत्यन्ये । तदित्थम्भूतमभयं गुणप्रकर्षयोगादचिन्त्यशक्तियुक्तत्वात् सर्वथा परार्थकारित्वाद् भगवन्त एव ददतीत्यभयदास्तेभ्यः ।
तथा 'चक्षुर्देभ्यः' । इह चक्षुर्विशिष्टमात्मधर्मरूपं तत्त्वावबोधनिबन्धनं गृह्यते तच्च 'श्रद्धा' इत्यपरे । तद्विहीनस्याचक्षुष्मत इव वस्तुतत्त्वदर्शनायोगात् न च मार्गानुसारिणी श्रद्धा सुखेन अवाप्यते, सत्यां चास्यां कल्याणचक्षुषीव भवति वस्तुतत्त्वदर्शनम्, तदियं धर्मकल्पद्रुमस्यावन्ध्यबीजभूता भगवद्भ्य एव भवतीति चक्षुर्ददतीति चक्षुर्दाः ।
तथा ‘मार्गदेभ्य:' । इह मार्गो भुजङ्गमनलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः स्वरसवाही क्षयोपशमविशेष:, 'हेतुस्वरूपफलशुद्धा सुखा' इत्यन्ये । अस्मिन्नसति न यथोचितगुणस्थानावाप्ति, मार्गविषमतया चेतः स्खलनेन प्रतिबन्धोपपत्तेः । मार्गश्च भगवद्भ्य एवेति मार्गं ददतीति मार्गदाः ।
तथा ‘शरणदेभ्यः’। इह शरणं भयार्त्तत्राणम्, तच्च संसारकान्तारगतानामतिप्रबलरागादिपीडितानां दुःखपरम्परासङ्क्लेशविक्षोभतः समाश्वासनस्थानकल्पं तत्त्वचिन्तारूपमध्यवसानं, ‘विविदिषा' इत्यन्ये । अस्मिश्च सति तत्त्वगोचराः शुश्रूषा- श्रवण-ग्रहण-धारणाविज्ञानेहापोहतत्त्वाभिनिवेशा: प्रज्ञागुणा भवन्ति, तत्त्वचिन्तामन्तरेण तेषामभावात् । संभवन्ति तामन्तरेणापि
१. 'मरण' इति योगशास्त्रवृत्तौ प० ६०९ ॥ २ मात्मरूपधर्मं - L. ॥ ३. तथावबोध° इति योगशास्त्रवृत्तौ प० ६१० । ललितविस्तरावृत्तौ तत्त्वावबोध' इति ॥। ४. विज्ञानोहापोह इति योगशास्त्रवृत्तौ प० ६१० | ५. सम्भवन्तु तु ताम इति योगशास्त्रवृत्तौ प० ६१० ॥
D:\new/d-2.pm5\3rd proof