SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ 'नमुत्थुणं' सूत्रविवरणम्-श्लो० ६१॥] [२६५ तदाभासाः, न पुनः स्वार्थसाधकत्वेन भावसाराः । तत्त्वचिन्तारूपं च शरणं भगवद्भ्यः एव भवतीति शरणं ददतीति शरणदाः । ___ तथा 'बोधिदेभ्यः' । इह बोधिर्जिनप्रणीतधर्मप्राप्तिः, इयं पुनः यथाप्रवृत्ताऽपूर्वाऽनिवृत्तिकरणत्रयव्यापाराभिव्यङ्ग्यमभिन्नपूर्वग्रन्थिभेदतः पश्चानुपूर्व्या प्रशमसंवेगनिर्वेदाऽनुकम्पाऽऽस्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनमुच्यते, 'विज्ञप्तिः' इत्यन्ये । पञ्चकमप्येतदपुनर्बन्धकस्य, पुनर्बन्धके यथोदितस्यास्याभावात् । एते च यथोत्तरं पूर्वपूर्वफलभूताः, तथाहि -अभयफलं चक्षुः, चक्षुःफलं मार्गो, मार्गफलं शरणम् , शरणफलं बोधिः सा च भगद्य एव भवतीति बोधि ददतीति बोधिदाः । एवमभयदान-चक्षुर्दान-मार्गदान-शरणदान-बोधिदानेभ्य एव यथोदितोपयोगसिद्धरुपयोगसम्पद एव हेतुसम्पदुक्ता।। साम्प्रतं स्तोतव्यसम्पद एव विशेषेणोपयोगसम्पदुच्यते "धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं"। 'धर्मदेभ्यः', इह धर्मश्चारित्रधर्मो गृह्यते, स च यति-श्रावकसम्बन्धिभेदेन द्वेधा, यतिधर्मः सर्वसावद्ययोगविरतिलक्षणः, श्रावकधर्मस्तु देशविरतिरूपः । स चायमुभयरूपोऽपि भगवद्भ्य एव, हेत्वन्तराणां सद्भावेऽपि भगवतामेव प्रधानहेतुत्वादिति धर्मं ददतीति धर्मदाः । धर्मदत्वं च धर्मदेशनाद्वारेणैव भवति, नान्यथेत्याह –'धर्मदेशकेभ्यः', धर्मं प्रस्तुतं यथाभव्यमवन्ध्यतया देशयन्तीति धर्मदेशकाः । तथा 'धर्मनायकेभ्यः' । धर्मोऽधिकृत एव तस्य नायका स्वामिनः, तद्वशीकरणभावात् तदुत्कर्षावाप्तेस्तत्प्रकृष्टफलभोगात् तद्विधानानुपपत्तेश्च 'धर्मसारथिभ्यः' प्रस्तुतस्य धर्मस्य स्वपरापेक्षया सम्यक्प्रवर्त्तन-पालन-दमनयोगतः सारथयो धर्मसारथयः। तथा 'धर्मवरचातुरन्तचक्रवर्तिभ्यः' । धर्मः प्रस्तुत एव, त्रिकोटिपरिशुद्धत्वेन सुगतादिप्रणीतधर्मचक्रापेक्षया उभयलोकहितत्वेन चक्रवर्त्यादिचक्रापेक्षया च वरं प्रधानं चतसृणां गतीनां नारकतिर्यग्नराऽमरलक्षणानामन्तो यस्मात् तच्चतुरन्तं, चक्रमिव चक्रं रौद्रमिथ्यात्वादिभावशत्रुलवनात् , ते न वर्त्तन्त इत्येवंशीला धर्मवरचतुरन्तचक्रवर्तिनः । १. एव-योगशास्त्रवृत्तौ [प० ६११] नास्ति ॥ २. तद्विधानानु(मु)पपत्तेश्च-मु० | L.P.C. I योगशास्त्रवृत्तावपि-[प० ६११] तद्विधानानुपपत्तेश्च-इति ।। ३. श्च धर्मनायकाः । धर्मसा' इति योगशास्त्रवृत्तौ प० ६११ ॥ ४. प्रस्तुतः स एव-इति योगशास्त्रवृत्तौ प० ६११ ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy