________________
'नमुत्थुणं' सूत्रविवरणम्-श्लो० ६१॥]
[२६३ अभिधेयमक्रमवदसदिति वाच्यम् , सर्वगुणानामेकत्रान्योऽन्यसंवलितत्वेनावस्थानात् , तेषां तु यथारुचिस्तोत्राभिधाने न दोषः ।
एवं पुरुषोत्तमत्वादिना प्रकारेण स्तोतव्यसम्पद एव सामान्येनोपयोगसम्पदमाह - "लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोअगराणं""समुदायेष्वपि प्रवृत्ताः शब्दा अनेकधाऽवयवेष्वपि प्रवर्त्तन्त' इति न्यायाद्यद्यपि लोकशब्देन तत्त्वतः पञ्चास्तिकाया उच्यन्ते ।
"धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रम् ।
तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम्" ॥१॥[ ] इति वचनात् । तथापीह लोकशब्देन भव्यसत्त्वलोक ए परिगृह्यते, सजातीयोत्कर्ष एवोत्तमत्वोपपत्तेः । अन्यथाऽभव्यापेक्षया सर्वभव्यानामप्युत्तमत्वान्नैषाममतिशय उक्तः स्यात् । ततश्च भव्यसत्त्वलोकस्य सकलकल्याणनिबन्धनतथाभव्यत्वभावेनोत्तमाः लोकोतमास्तेभ्यः ।
तथा 'लोकनाथेभ्यः' । इह लोकशब्देन बीजाधानादिना संविभक्तो रागाद्युपद्रवेभ्यो रक्षणीयो विशिष्टो भव्यलोकः परिगृह्यते, अस्मिन्नेव नाथत्वोपपत्तेः, “योगक्षेमकृन्नाथः" [ ] इति वचनात् । तदिह येषामेव बीजाधानोद्भेदपोषणैर्योगः, क्षेमञ्च तत्तदुपद्रवाद्यभावेन, त एवेह भव्या लोकशब्देन गृह्यन्ते । न चैते योगक्षेमे सकलभव्यसत्त्वविषये कस्यचित् सम्भवतः, सर्वेषां मुक्तिप्रसङ्गात् , तस्मादुक्तस्यैव लोकस्य नाथा इति । ___ तथा 'लोकहितेभ्यः' इह लोकशब्देन सकल एव सांव्यवहारिकादिभेदभिन्नः प्राणिवर्गो गृह्यते, तस्मै सम्यग्दर्शनप्ररूपणरक्षणयोगेन हिताः लोकहिताः । __ तथा 'लोकप्रदीपेभ्यः' अत्र लोकशब्देन विशिष्ट एव तद्देशनाद्यंशुभिर्मिथ्यात्वतमोऽपनयनेन यथार्ह प्रकाशितज्ञेयभावः संज्ञिलोकः परिगृह्यते, तं प्रत्येव भगवतां प्रदीपत्वोपपत्तेः, न ह्यन्धं प्रति प्रदीपनं प्रदीपो नाम, तदेवंविधं लोकं प्रति प्रदीपा लोकप्रदीपाः ।
तथा 'लोकप्रद्योतकरेभ्यः' । इह लोकशब्देन विशिष्टचतुर्दशपूर्वविल्लोकः परिगृह्यते,
१. स्तोतव्यसम्पद एव हेतुविशेषसम्पत् तृतीया ३ । इदानी स्तोतव्यसम्पद् एव सामान्ये इति योगशास्त्रवृत्तौ प० ६०८ ॥ २. क्षेमश्च-मु० | L.P. योगशास्त्रवृत्तावपि क्षेमञ्च-इति ।. ३. सर्वेषामेव मुक्ति इति योगशास्त्रवृत्तौ प० ६०८ ॥ ४. लोकहितास्तथा-मु० नास्ति, L.P. | योगशास्त्रवृत्तावपि [प० ६०९] अस्ति ॥ ५. तद्-योगशास्त्रवृत्तौ [प०६०९] नास्ति ।।
D:\new/d-2.pm5\3rd proof