SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २६२] [धर्मसंग्रहः-द्वितीयोऽधिकारः एतेऽपि बाह्यार्थसंवादिसत्यवादिभिः संस्कृताचार्यशिष्यनिरुपमानस्तवार्ता एवेष्यन्ते "हीनाधिकाभ्यामुपमा मृषे" [ ] इतिवचनात् , तद्व्यवच्छेदार्थमाह –'पुरुषसिंहेभ्य' पुरुषाः सिंहा इव प्रधानशौर्यादिगुणभावेन पुरुषसिंहाः, यथा सिंहाः शौर्यादिगुणयोगिनः तथा भगवन्तोऽपि कर्मशत्रून् प्रति शूरतया, तदुच्छेदं प्रति क्रूरतया, क्रोधादीन् प्रत्यसहनतया, रागादीन् प्रति वीर्ययोगेन, तप:कर्म प्रति धीरतया ख्याताः । तथा एषामवज्ञा परीषहेषु , न भयमुपसर्गेभ्यः, न चिन्ताऽपीन्द्रियवर्गे, न खेदः सँयमाध्वनि, निष्प्रकम्पता सद्ध्याने न चैवमुपमा मृषा, तद्द्वारेण तदसाधारणगुणाभिधानादिति । एते च सुचारुशिष्यैः सजातीयोपमायोगिन एवेष्यन्ते, विजातीयेनोपमायां तत्सदृशधर्मापत्या पुरुषत्वाद्यभावप्राप्तिः, यदाहुस्ते –“विरुद्धोपमायोगे तद्धर्मापत्त्या तदवस्तुत्वम्" [ ] इति, तद्व्यपोहायाह –'पुरुषवरपुण्डरीकेभ्यः' पुरुषा वरपुण्डरीकाणीव संसारजलासङ्गादिना धर्मकलापेन परुषवरपुण्डरीकाणि तेभ्यः यथा हि पुण्डरीकाणि पड़े जातानि जले वर्धितानि तदुभयं विहायोपरि वर्तन्ते, प्रकृतिसुन्दराणि च भवन्ति, निवासो भुवनलक्ष्म्याः , आयतनं चक्षुराद्यानन्दस्य, प्रवरगुणयोगतो विशिष्टतिर्यग्नरामरैः सेव्यन्ते, सुखहेतवो भवन्ति । तथैतेऽपि भगवन्तः कर्मपङ्के जाताः दिव्यभोगजलेन वर्धिता, उभयं विहाय वर्तन्ते, सुन्दराश्चातिशययोगेन, निवासो गुणसम्पदः, हेतवः परमानन्दस्य, केवलादिगुणभावेन भव्यसत्त्वैः सेव्यन्ते, निर्वाणनिबन्धनं च जायन्त इति । नैवं भिन्नजातीयोपमायोगेऽप्यर्थतो विरोधाभावेन यथोदितदोषसम्भव इति । यदि तु विजातीयोपमायोगे तद्धर्मापत्तिरापाद्यते तहि सिंहादिसजातीयोपमायोगे तद्धर्माणां पशुत्वादीनामप्यापत्तिः स्यादिति । ___एतेऽपि यथोत्तरं गुणक्रमाभिधानवादिभिः सुरगुरुविनयीनगुणोपमायोग एवाधिकगुणोपमारे इष्यन्ते । अभिधानक्रमाभावेऽभिधेयमपि तथा "अक्रमवदसत्" [ ] इति वचनाद् , एतन्निरासायाह –'पुरुषवरगन्धहस्तिभ्यः' पुरुषा वरगन्धहस्तिन इव गजेन्द्रा इव क्षुद्रगजनिराकरणादिना धर्मसाम्येन पुरुषवरगन्धहस्तिनः, यथा गन्धहस्तिनां गन्धेनैव तद्देशविहारिणः क्षुद्रशेषगजा भज्यन्ते, तद्वदीतिपरचक्रदुर्भिक्षमारिप्रभृतयः सर्व एवोपद्रवगजा अचिन्त्यपुण्यानुभावतो भगवद्विहारपवनगन्धादेव भज्यन्त इति । न चैवमभिधानक्रमाभावे १. L.P.C. योगशास्त्रवृत्तिः प० ६०६ । बाह्यार्थसत्त्वादिसत्य(सद्भाव)वादिभिः-मु० ॥ २. संकृता' इति योगशास्त्रटीका प० ६०६ ॥ ३. वीरतया-इति योगशास्त्रवृत्तौ प० ६०६ ।। ४. न प्रकम्पो ध्याने इति योगशास्त्रवृत्तौ ॥ ५. प्ते:-इति योगशास्त्रवृत्तौ ॥ ६. जलेन व इति योगशास्त्रवृत्तौ प०६०७ ॥ ७. तद्वद् अक्रम' इति योगशास्त्रवृत्तौ ।। D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy