SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ 'नमुत्थुणं' सूत्रविवरणम्-श्लो० ६१॥] [२६१ आदिकरणहेतवो वा आदिकराः, सकलनीतिनिबन्धनस्य श्रुतधर्मस्येति सामर्थ्याद् गम्यते, तेभ्य: "यद्यप्येषा द्वादशाङ्गीन कदाचिन्नासीत्न कदाचिन्न भवति न कदाचिन्न भविष्यति अभूच्च भवति च भविष्यति च"[नन्दीसूत्रे सू० ११८ ] इतिवचनात् नित्या द्वादशाङ्गी, तथाप्यर्थापेक्षया नित्यत्वं शद्वापेक्षया तु स्वस्वतीर्थे श्रुतधर्मादिकरत्वमविरुद्धम् । एतेऽपि कैवल्यावाप्त्यनन्तरापवर्गवादिभिरतीर्थकरा एवेष्यन्ते "अकत्स्नक्षये कैवल्याभावात्"[ ] इतिवचनादिति, तद्व्यपोहार्थमाह -'तीर्थकरेभ्यः तीर्यते संसारसमुद्रोऽनेनेति तीर्थं, तच्च प्रवचनाधारश्चतुर्विधः सङ्घः प्रथमगणधरो वा, तत्करणशीलास्तीर्थङ्करा न चाकृत्स्नक्षये कैवल्यं न भवति, घातिकर्मक्षये अघातिकर्मभिः कैवल्यस्याबाधनात् , एवं च ज्ञानकैवल्ये तीर्थकरत्वमुपपद्यते, मुक्तकैवल्ये तु तीर्थङ्करत्वमस्माभिरपि नेष्यते। एतेऽपि सदाशिवानुग्रहात् कैश्चिद् बोधवन्त इष्यन्ते, यदाहुः -"महेशानुग्रहाद् बोधनियमो"[ ] इति तन्निराकरणार्थमाह –'स्वयंसंबुद्धेभ्यः,' स्वयम् -आत्मना तथाभव्यत्वादिसामग्री-परिपाकान्न तु परोपदेशात् , सम्यग् –अविपर्ययेण बुद्धाः -अवगततत्त्वाः स्वयंसंबुद्धाः, तेभ्यः । यद्यपि भवान्तरेषु तथाविधगुरुसन्निधानायत्तावबोधास्ते अभूवन् , तथापि तीर्थङ्करजन्मनि परोपदेशनिरपेक्षा एव बुद्धाः । यद्यपि च तीर्थकरजन्मन्यपि लोकान्तिकत्रिदशवचनात् “भयवं! तित्थं पवत्तेहि'[आवश्यकनि० २१५ ] इत्येवंलक्षणाद् दीक्षां प्रतिपद्यन्ते, तथापि वैतालिकवचनानन्तरप्रवृत्तनरेन्द्रयात्रावत् स्वयमेव प्रव्रज्यां प्रतिपद्यन्ते । ___ इदानीं स्तोतव्यसम्पद एव हेतुविशेषसम्पदुच्यते -"पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं" पुरि शरीरे शयनात् पुरुषा विशिष्टकर्मोदयाद्विशिष्टसंस्थानवच्छरीरवासिनः सत्त्वास्तेषामुत्तमाः सहजतथाभव्यत्वादिभावतः श्रेष्ठाः पुरुषोत्तमाः तथाहि -आसंसारमेते परार्थव्यसनिन उपसर्जनीकृतस्वार्था उचितक्रियावन्तोऽदीनभावाः सफलारम्भिणोऽदृढानुशयाः कृतज्ञतापतयोऽनुपहतचित्ता देवगुरुबहुमानिनो गम्भीराशया इति । न खल्वसमारचितमपि जात्यं रत्नं समानमितरेण, न च समारचितोऽपि काचादिर्जात्यरत्नीभवति, एवं च यदाहुः सौगताः -"नास्तीह कश्चिदभाजनं सत्त्वः"[ ] इति "सर्वे बुद्धा भविष्यन्ति''[ ] इति तत् प्रत्युक्तम् ।। १. यद्यपि सैषा-इति योगशास्त्रवृत्तौ प०६०४ । 'इच्चेइयं दुवालसंगं गणिपिडगंण कयाइ णासी, ण कयाइ ण भवति, ण कयाइ ण भविस्सति, भुवि च भवति य भविस्सति य' इति नन्दीसूत्रे पाठः ।। २. सफलारम्भिणो दृढा मु० C. । ललितविस्तरा-योगशास्त्रवृत्त्योः [प० ६०६] सफलारम्भिणोऽदृढा' इति ॥ ३. जात्य' इति योगशास्त्रवृत्तौ प०६०६॥ ४. ति च तत्-इति योगशास्त्रवृत्तौ प०६०६॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy