SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २६०] [धर्मसंग्रहः-द्वितीयोऽधिकारः "अट्टविहं पि हु कम्मं, अरिभूयं होइ सयलजीवाणं । तं कम्मं अरि हंता, अरिहंता तेण वुच्चंति" ॥१॥[आव.नि./९२९] 'अरुहंताणं' इत्यपि पाठान्तरम् , तत्र अरोहद्भ्यः -अनुपजायमानेभ्यः क्षीणकर्मबीजत्वात् । उक्तं च - "दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्कर" ॥१॥ ___ [तत्त्वार्थसूत्रस्य अन्तिमकारिकासु श्लो. ८/शा.स./६१२] शाब्दिकास्तु अर्हच्छब्दस्यैव प्राकृते रूपत्रयमिच्छन्ति, यदूचुर्तेमसूरयः "उच्चार्हति" [श्रीसि०८-२-१११] चकाराददितावपि, तेभ्योऽर्हद्भ्यो नमोऽस्त्विति, नमःशब्दयोगाच्चतुर्थी, "चतुर्थ्याः षष्ठी'' [ श्रीसि० ८-३-१३१] इति प्राकृतसूत्राच्चतुर्थ्याः स्थाने षष्ठी बहुवचनं चाद्वैतव्यवच्छेदनार्हद्बहुत्वख्यापनार्थं, विषयबहुत्वेन नमस्कर्तुः फलातिशयज्ञापनार्थं च। एते चार्हन्तो नामाद्यनेकभेदा इति भावार्हत्संपरिग्रहार्थमाह -'भगवद्भ्यः' इति तत्र भगः -समग्रैश्वर्यादिलक्षणः । उक्तं च - "ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रिय । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना" ॥१॥[अ.ना./४२] समग्रं चैश्वर्यं भक्तिनम्रतया त्रिदशपतिभिः शुभानुबन्धिमहाप्रातिहार्यकरणलक्षणं रूपं पुनः सकलसुरस्वप्रभावविनिर्मिताङ्गष्ठरूपाङ्गारनिदर्शनातिशयसिद्धम् , यशस्तु रागद्वेषपरीषहोपसर्गपराक्रमसमुत्थं त्रैलोक्यानन्दकार्याकालप्रतिष्ठं, श्रीः पुनर्घातिकर्मोच्छेदविक्रमावाप्तकेवलालोकनिरतिशयसुखसम्पत्समन्विता परा धर्मस्तु सम्यग्दर्शनादिरूपो दानशीलतपोभावनामयः साश्रवानाश्रवो महायोगात्मकः, प्रयत्नः पुनः परमवीर्यसमुत्थ एकरात्रिक्यादिमहाप्रतिमाभावहेतुः समुद्घातशैलेश्यव्यवस्थाव्यङ्ग्यः समग्र इति । अयमेवम्भूतो भगो विद्यते येषां ते भगवन्तः, तेभ्यो भगवद्भ्यो नमोऽस्त्विति, एवं सर्वत्र क्रिया योजनीया । तदेवम्भूता एव प्रेक्षावतां स्तोतव्या इत्याभ्यामालापकाभ्यां स्तोतव्यसम्पदुक्ता । साम्प्रतमस्या हेतुसम्पदुच्यते-"आइगराणं तित्थगराणंसयंसंबुद्धाणं"आदिकरणशीला: १. कम्ममरि-C. । कम्ममरि-इति योगशास्त्रवृत्तौ प० ६०१ ॥ २. तुला-ललितविस्तरावृत्तिः प० १५ ॥ ३. इत आरभ्य गाथा पर्यन्तं तुला-योगशास्त्रवृत्तिः प०६०२-६५० ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy