________________
'नमुत्थुणं' सूत्रविवरण - श्लो० ६१ ॥ ]
[ २५९
जाव जिणपडिमाणं आलोए पणामं करेइ" [ ] इत्यादि " जहा सूरिआभे वामं जाणुं अंचेइ"[ ] इत्यादि । एवं शिरोन्यस्ताञ्जलिना शक्रस्तवपाठोऽपि तासां विमर्थः, तथाभने हृदादिदर्शनप्रसक्तेः, केवलमञ्जलि भ्रमणमात्रादि न्युञ्छनादिविधानवद्भक्त्यर्थं भवतु नाम, उक्तं च –‘“विणओणयाए गायलट्ठीए, चक्खुप्फासे अंजलिप्पग्गहेणं" [] एवमेव नाममात्रादिना प्रणिधानाद्यपि ज्ञेयं, सर्वत्र विषमासनादित्वं वर्ज्यमित्यैदम्पर्यमस्य । एतदर्थिना दशाश्रुतस्कन्धचूर्ण्याद्यवलोक्यमित्यलं विस्तरेण । तत्र च प्रणिपातदण्डके ] तंत्र त्रयस्त्रिंशदालापकाः आलापकद्विकादिप्रमाणाश्च विश्रामभूमिरूपा नव सम्पदो भवन्ति । यदाह - “दो तिअ चउर ति पंचा दोन्नि अ चउरो अ हुंति तिन्नेव । सक्कथये नव संपय, तित्तीसं हुंति आलावा" ॥१॥ [] एताश्च यथास्थानं नामतः प्रमाणतश्च व्याख्यास्यन्ते ।
अत्र सूत्रव्याख्या - " नमोऽत्थु णं अरिहंताणं भगवंताणं", तत्र नम इति नैपातिकं पदं पूजार्थं, पूजा च द्रव्यभावसङ्कोचः तत्र कर - शिरः - पादादिद्रव्यसंन्यासो द्रव्यसङ्कोचः, भावसङ्कोचस्तु विशुद्धस्य मनसो नियोगः, अस्त्विति भवतु, प्रार्थना चैषा धर्मबीजम्, आशयविशुद्धिजनकत्वात्, णमिति वाक्यालङ्कारे, अतिशयपूजामर्हन्तीत्यर्हन्तः । यदाहुः - " अरिहंति वंदणनमंसणाइ, अरिहंति पूअसक्कारं ।
-
सिद्धिगमणं च अरिहा, अरिहंता तेण वुच्चंति" ॥१॥ [ आव.नि./९२१ ] तथा अरिहननादर्हन्तः, अरयश्च मोहादयः साम्परायिककर्मबन्धहेतव:, तेषामरीणामनेकभवगहनव्यसनप्रापणकारणानां हननादर्हन्तः । तथारजोहननादर्हन्तः, रजश्च घातिकर्मचतुष्ट्यम्, , येनावृतस्यात्मनः सत्यपि ज्ञानादिगुणस्वभावत्वे घनसमूहस्थगितगभस्तिमण्डलस्य विवस्वत इव तद्गुणानामभिव्यक्तिर्न भवति तस्य हननादर्हन्तः । तथा रहस्याभावादर्हन्तः, तथाहि —भगवतां निरस्तनिरवशेषज्ञानावरणादिकर्मपारतन्त्र्याणां केवलमप्रतिहतमनन्तमद्भुतं ज्ञानं दर्शनं चास्ति, ताभ्यां जगदनवरतं युगपत् प्रत्यक्षतो जानतां पश्यतां च रहस्यं नास्ति, तस्माद्रहस्याभावादर्हन्तः । एषु त्रिष्वर्थेषु पृषोदरादित्वादर्हदिति सिध्यति ।
'अरिहंताणं' इति पाठान्तरं वा, तत्र कर्मारिहन्तृभ्यः । आह च -
१. तत्र च C. मूल । तत्र च प्रणिपातदण्डके - P. मूल । तत्र च मु० C. सं P. सं० नास्ति । तत्रL. । तुला-योगशास्त्रवृत्तिः ३।१२३ ० ५९८ ॥ २. तिन्ने य - इति योगशास्त्रवृत्तौ प० ५९९ ॥ ३. व्याख्यास्यते-L.P.C. । कथयिष्यन्ते - इति योगशास्त्रवृत्तौ प० ५९९ ॥ ४. तुला योगशास्त्रटीका ३।१२३प० ६०१ ॥
D:\new/d-2.pm5\3rd proof