________________
२५८]
[धर्मसंग्रहः-द्वितीयोऽधिकारः स जिणो जिणाइसयओ १, सो चेव गुरू गुरूवएसाओ २।। करणाईविणयणाओ, सो चेव मओ उ उज्झाओ" ॥३॥[वि.भा./३२१९ ] त्ति । तथा- “एवं स्कन्दकसाधुपुङ्गवपुरः श्रीगौतमेनोदिताः,
श्रुत्वाऽर्हद्गुरुतादिसर्वपदवी: श्रीवर्द्धमानप्रभोः । बुध्यध्वं भविकाः ! स्फुटं तदरि रु )हद्विम्बेष्वपि;
स्थापनाचार्यत्वादि तथा क्षमाश्रमणकैः कार्यो विधिस्तत्पुरः" ॥१॥[ ] एवं साक्षात्समासन्नभावाचार्यासद्भावे क्षमाश्रमणपूर्वं जिनबिम्बाद्यापृच्छ्य ईर्यापथिकी प्रतिक्रमणीया, न तु तद्विनापि । यद् आगमः -
"गुरुविरहंमि य ठवणा, गुरूवएसोवदंसणत्थं च"[प० २६२ ] इत्यादि सङ्घाचारवृत्तौ ईर्यासम्पदधिकारे।
जघन्य-मध्यमे तु चैत्यवन्दने ईर्यापथिकीप्रतिक्रमणमन्तरेणापि भवति इति । उत्कृष्टया वन्दनया वन्दितुकामो विरतः साधुः श्रावकश्चाविरतसम्यग्दृष्टिरपुनर्बन्धको वा यथाभद्रकोऽपि यथोचितं प्रतिलेखितप्रमार्जितस्थण्डिलो भुवनगुरौ विनिवेशितनयनमानसः संवेगवैराग्यवशादुत्पन्नरोमाञ्चकञ्चुको मुदश्रुपूर्णलोचनोऽतिदुर्लभं भगवत्पादवन्दनमिति बहुमन्यमानो महावृत्तानर्थयुक्तानपुनरुक्तान्नमस्कारान् भणित्वा योगमुद्रयाऽस्खलितादिगुणोपेतं तदर्थानुस्मरणगर्भं प्रणिपातदण्डकं पठति,
[अत्र च सङ्घाचारवृत्त्युक्तोऽयं विशेषः –‘एको द्वौ यावदुत्कर्षतोऽष्टोत्तरं शतं यथाशक्ति भणित्वा पश्चाद्यथाविधि प्रागुक्तस्वरूपं प्रणिपातं कुर्यात् । तथा चागमः -
"पयत्तेण धूवं दाऊण जिणवराणं, अट्ठसयसुद्धगंथजुत्तेहिं अपुणरुत्तेहिं संथुणई" [ ] इत्यादि । प्रायः पुरुषाश्रितमिदं संभाव्यते, सूर्याभविजयदेवादिविहितत्वेन द्वितीयतृतीयोपाङ्गादावेवंभणितेर्दर्शनात् द्रौपद्यादिप्रस्तावे त्वेतन्नमस्कारप्रधानालापकपरिहारेण षष्ठाङ्गादावतिदेशभणनाच्च । तथा च तत्राक्षराणि "तए णं सा दोवई रायवरकन्ना"[] इत्यादि "जाव मज्जणघराओ पडिणिक्खमित्ता जेणेव जिणायतणे तेणेव उवागच्छइ,
१. तदरिह L.P.C. || २. विधिः तत्पुर: C. संशो० । विधि तत्पुर:-इति सङ्घाचारभाष्यवृत्तौ प० २६३ ।. ३. जिनबिम्बाद्यप्यापृच्छय-C. | जिनबिम्बाद्यन्यथापृच्छय-इति सङ्घाचारभाष्यवृत्तौ प० २६२ ॥ ४. तुला० योगशास्त्रवृत्तिः प० ५९७ ।। ५. तुला-योगशास्त्रवृत्तिः ५९८ ॥ ६. यद्वा भ' इति योगशास्त्रवृत्तौ प०५९८ ।। ७. मुदाश्रु इति योगशास्त्रवृत्तौ प०५९८ ।। ८. अट्ठसयविसुद्धग्रंथ' P. I अट्ठसयविशुद्धगुत्त L. | ९. हिं महावित्तेहिं संथुणइ-P. । १०. वतिदेशविधानाच्च P.L. ||
D:\new/d-2.pm5\3rd proof