________________
१९-कायोत्सर्गदोषा:-श्लो० ६१॥]
[२५७ माले चोत्तमाङ्गं निधाय ४, अवसनशबरीवत् गुह्याग्रे करौ कृत्वा ५ वधूवदवनतोत्तमाङ्गः ६, निगडितवच्चरणौ विस्तार्य मेलयित्वा वा ७, नाभेरुपरि जानुनोरधश्च प्रलम्बमानवसनः ८., दंशादिरक्षार्थमज्ञानाद्वा हृदयं प्रच्छाद्य ९, शकटोद्धिवदङ्गष्ठौ पाम वा मीलयित्वा १०, संयतीवत् प्रावृत्य ११, कविकवद्रजोहरणमग्रतः कृत्वा १२, वायसवच्चक्षुर्गोलको भ्रमयन् १३, कपित्थवत् परिधानं पिण्डयित्वा १४, यक्षाविष्ट इव शिरः कम्पयन् १५, मूकवत् हूहूकरणं १६, आलापकगणनार्थमङ्गली भ्रूवौ वा चालयन् १७, वारुणी-सुरा तद्वत् बुडबुडयन् १८, अनुप्रेक्षमाणो वानर इव ओष्ठपुटं चालयंश्च कायोत्सर्गं करोतीत्येकोनविंशतिः १९। __सूत्रे सर्वमप्यनुष्ठानं साधुमुद्दिश्योक्तमतस्तद्विशेषमाह 'नाहि त्ति' नाभेरधश्चत्वार्यङ्गलानि चोलपट्टः, 'करयल'त्ति दक्षिणोत्तरपाणिभ्यां मुखवस्त्रिका रजोहरणं च 'कुप्पर'त्ति कूर्पराभ्यां चोलपट्टश्च धरणीयः, 'उस्सारियपारियंमि थुइ'त्ति उत्सारिते पुरिते कायोत्सर्गे नमस्कारेण पारिते जिनस्तुतिर्भणनीया, पाठान्तरं वा 'एगुणवीसा दोसा, काउस्सग्गस्स वज्जिज्जा' इति सुबोधं चैतदिति गाथार्थः । सम्पूर्णकायोत्सर्गश्च ‘नमो अरिहंताणं' इति नमस्कारपूर्वकं पारयित्वा चतुर्विंशतिस्तवं सम्पूर्णं पठति । एवं सन्निहिते गुरौ तत्समक्षं गुरुविरहे तु गुरुस्थापनां मनसिकृत्य ईर्यापथिकीप्रतिक्रमणं निर्वर्त्य चैत्यवन्दनमुत्कृष्टमारभते । अत्र चैवं बृहद्भाष्योक्तो विधिः - "संनिहिअं भावगुरुं, आपुच्छित्ता खमासमणपुव्वं ।
इरिअंपडिक्कमिज्जा, ठवणाजिणसक्खिअंइहरा" ॥१॥[चे.म.भा./३६५ ] न तु जिनबिम्बस्यापि पुरतः स्थापनाचार्यः स्थापनीयो, यतस्तीर्थकरे सर्वपदभणनात् तद्विम्बेऽपि सर्वपदस्थापनाऽवसीयते एवं । उक्तं च व्यवहारभाष्ये -
"आयरियग्गहणेणं, तित्थयरो इत्थ होइ गहिओ अ। किं न भवइ आयरिओ, आयारं उवदिसंतो य? ॥१॥[ व्य.भा./४६८५] निदरिसणमित्थ जह खंदएण पुट्ठो य गोयमो भयवं !।
केण तुहं सिटुं ति य, धम्मायरिएण पच्चाह ॥२॥[व्य.भा./४६८६] १. विस्तार्यते मेल° L. । 'विस्तार्याथवा मीलयित्वा-इति प्रवचनसारोद्धारवृत्तौ प० २६२ ॥ २. शकटोद्धिवद मु० । शकटोद्धिका-इति योगशास्त्रवृत्तौ । शकाटोध्विका-इति प्रवचनसारोद्धारवृत्तौ प० २६२ ॥ ३. वा-मु० C. नास्ति । ४. तुला-योगशास्त्रवृत्तिः प० ५९७ ।। ५. 'मारभ्यतेइति योगशास्त्रवृतौ प०५९७ ॥
D:\new/d-2.pm5\3rd proof