SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २५६] [धर्मसंग्रहः-द्वितीयोऽधिकारः कायोत्सर्गस्तस्मिन् पूर्ण एव 'नमो अरिहंताण' इति वक्तव्यम् तथा] मार्जार-मूषकादे: पुरतो गमने अग्रतः सरतोऽपि, चौरसम्भ्रमे राजसम्भ्रमे वा सर्पदष्टे आत्मनि परे वा साध्वादौ अपूर्णमपि कायोत्सर्ग पारयतोऽपि न भङ्गः । यदाहुः - "अगणी उच्छिदिज्ज व, बोहीखोभाइ दीहडक्को वा। आगारेहिँ अभग्गो, उस्सग्गो एवमाईहिं" ॥[आव.नि./१५१६] "एतैः 'अभग्नः' सर्वथा अखण्डितः 'अविराधितो' देशतोऽप्यविनाशितो 'भवेन्मम कायोत्सर्गः' । कियन्तं कालं यावत् , इत्याह –'जावेत्यादि' यावदर्हतां भगवतां नमस्कारेण 'नमो अरिहंताणं इत्यनेन 'न पारयामि' न पारंगच्छामि। तावत् किम्? इत्याह –'तावेत्यादि' तावन्तं कालं 'कार्य' देहं 'स्थानेन' ऊर्ध्वस्थानादिना 'मौनेन' वाग्निरोधेन 'ध्यानेन' मनःसुप्रणिधानेन 'अप्पाणं'ति आर्षत्वादात्मीयं कायं 'व्यत्सजामि' कव्यापारनिषेधेन त्यजामि । अयमर्थः -पञ्चविंशत्युच्छ्वासमानं कालं यावदूर्ध्वंस्थितः प्रलम्बितभुजो निरुद्धवाक्प्रसर: प्रशस्तध्यानानुगतस्तिष्ठामि स्थान-मौन-ध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासद्वारेण तु व्युत्सृजामि। पञ्चविंशतिरुच्छ्वासाश्चतुर्विंशतिस्तवेन 'चंदेसु निम्मलयरा' इत्यन्तेन चिन्तितेन पूर्यन्ते, "पायसमा ऊसासा'[ ] इति वचनात् । साम्प्रतं कायोत्सर्गस्य दोषवर्जनाय गाथाद्वयमिदम् – "घोडग १लया २ य खंभे, कड़े ३ माले ४ य सबरि ५ वह ६ नियले ७ । लंबुत्तर-८ थण ९ उद्धी १० संजइ ११ खलिणे १२ य वायस १३ कविढे १४ ॥१॥ सीसोकंपिय १५ मूए १६, अंगुलिभमुहा १७ य वारुणी १८ पेहा १९ । नाहीकरयलकुप्पर, उस्सारियपारियंमि थुई ॥२॥ [ आव.नि./१५४६-७] अश्ववद्विषमपादः १, वाताहतलतावत् कम्पमानः २, स्तम्भे कुड्ये वाऽवष्टभ्य ३, १. पुरोगमने इति प्रवचनसारोद्धारवृत्तौ प० १६१ ॥ २. सरोतोऽपि न भङ्गः, चौर० इति योगशास्त्र[प० ५९६] प्रवनचसारोद्धार[प० १६१]वृत्त्योः ।। ३. अगणीओ छिदिज्ज-मु० । अगणी उच्छिदिज्ज-इति योगशास्त्रवृत्तौ प० ५९६ । अगणी उछिदिज्ज-इति ललितविस्तरायाम् प०....॥ ४. बोहीखोभो य-मु० । L.P.C. आवश्यकनियुक्ति-योगशास्त्रवृत्ति-प्रवचनसारोद्धारवृत्त्यादिषु अपि बोहीखोभाइ-इति ॥ ५. इतोऽग्रे 'अन्ये तु अप्पाणमिति न पठन्ति'-इति अधिकं योगशास्त्रवृत्तौ प० ५९७ । 'अन्ये तु न पठन्ति एवैनमालापकम्' इति आवश्यकहारिभद्रयां वृत्तौ प० ७८० ॥ ६. उड्डी मु० ॥ ७. संजय-L.P.C. ॥ ८. तुला-योगशास्त्रवृत्तिः प० ७०३ तः, आवश्यकचूर्णिः प० २६८-९, प्रवचनसारोद्धारवृत्तिः प० १५५-१५१ ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy