SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ 'तस्सउत्तरी-अन्नत्थसूत्र' विवरणम्-श्लो० ६१॥] [२५५ चित्तं -जीवं मनो वा शोधयति पापं छिनत्तीति वाऽऽर्षत्वात् प्रायश्चित्तम् , तस्य करणेन हेतुना । तच्च विशुद्ध्या स्यात् , इत्याह –'विसोहीकरणेणं' विशोधनं विशोधिरतिचारापगमादात्मनो नैर्मल्यम् , तस्याः करणेन हेतुना । तदपि विशल्यत्वे सति स्यात् , इत्याह –'विसल्लीकरणेणं' विगतानि शल्यानि मायादीनि यस्यासौ विशल्यः, अविशल्यस्य विशल्यस्य करणं विशल्यीकरणं तेन हेतुना। किम् ? इत्याह –'पावाणं कम्माणं निग्घायणट्ठाए' पापानां भवहेतूनां कर्मणां ज्ञानावरणादीनां निर्घातनमुच्छेदः, स एवार्थः प्रयोजनम् तस्मै, 'ठामि' अनेकार्थत्वाद्धातूनां करोमि 'कायोत्सर्ग' कायव्यापारत्यागमित्यर्थः ॥ किं सर्वथा ? न, इत्याह –'अन्नत्थ ऊससिएणम् इत्यादि' । अन्यत्रोच्छ्वासितात् ऊर्ध्वं श्वासग्रहणात्' उत् ऊर्ध्वं प्रबलं वा श्वसितम् उच्छ्वसितमिति व्युत्पत्तेः अत्र पञ्चम्यर्थे तृतीया, तन्मक्त्वा योऽन्यो व्यापारस्तेन व्यापारवत: कायस्योत्सर्ग इत्यर्थः । एवमत्तरत्रापि। एवं 'निःश्वसितात्' श्वासमोक्षणात् । 'कासितात्' क्षुतात् । 'जृम्भिताद्' उद्गारितात् । एतानि प्रतीतानि । वातनिसर्गोऽधोवातनिसर्गस्तस्मात् । कासितादीनि च जीवरक्षार्थं मुखे हस्तदानादियतनया कार्याणि । 'भमलीए' अकस्माद् देहभ्रमेः । 'पित्तमुच्छाए' पित्तसंक्षोभादीषत्मोहो मूर्छा तस्याः तयोश्च सत्योरुपवेष्टव्यम् । सहसापतने मा भूत् सँयमात्मविराधनेति । 'सुहुमेहिं इत्यादि' सूक्ष्मेभ्योऽङ्गसंचालेभ्यो रोमोत्कम्पादिभ्यः । सूक्ष्मेभ्यः खेलसंचालेभ्यः, खेलः -श्लेष्मा । सूक्ष्मेभ्यो दृष्टिसंचालेभ्यो निमेषादिभ्यः ।। ___उच्छ्वसितादिभ्योऽन्यत्र कायोत्सर्ग करोमीति, तावता किमुक्तं भवति ? 'एवमाइएहिं इत्यादि' एवमादिभिरूच्छ्वसितादिभिः पूर्वोक्तैराकारैरपवादैरादिशब्दादन्येऽपि गृह्यन्ते, अग्नेविद्युतो वा ज्योतिषः स्पर्शने प्रावरणं गृह्णतोऽपि न भङ्गः । [ननु नमस्कारमेवाभिधाय किमिति तद्ग्रहणं न करोति । येन तद्भङ्गो न भवति ? उच्यते -नात्र नमस्कारेण पारणमेवाविशिष्टं कायोत्सर्गमानं क्रियते, किन्तु यो यत्परिमाणः कायोत्सर्ग उक्तस्तावन्तं कालं प्रतीक्ष्य तत ऊर्ध्वं, नमस्कारमपठित्वा पारयतो भङ्गः । अपरिसमाप्तेऽपि च पठतो भङ्ग एव, तस्मात् यो यत्परिमाणः १. इतः आरभ्य तुला-ललितविस्तरावृत्तिः प० ८६ ॥ २. P.C. I भूत् सँयता(मा)त्मविराधनेति-मु० । ३. एतावता-इति योगशास्त्रवृत्तौ प० ५९५ ॥ ४. तुला-आवश्यकहारिभद्रीयवृत्तिः प० ७८४, प्रवचनसारोद्धारवृत्तिः प० १६१ ।। ५. अपरिसमाप्तौ च पठतोऽपि भङ्ग एव-इति प्रवचनसारोद्धारवृत्तौ प० १६१ ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy