SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 'मिच्छा मि दुक्कडं' भङ्गाः-श्लो० ६१॥] [२५३ "मि त्ति मिउमद्दवत्ते, छत्ति य दोसाण छायणे होइ । मि त्ति य मेराइ ठिओ दु त्ति दुगुंछामि अप्पाणं ॥१॥[आ.नि./६८६ ] कत्ति कडं मे पावं, ड त्ति य डेवेमि तं उवसमेणं । एसो मिच्छादुक्कडपयक्खरत्थो समासेण" ॥२॥ [ आ.नि./६८७] सम्पत् ८ सम्यग्मिथ्यादुष्कृतकर्तृस्तत्क्षणादशेषमपि कर्म क्षीयते । अत्र च त्रिषष्ट्यधिकपञ्चशतीमितानां जीवानामेवं मिथ्यादुष्कृतं दीयते, तद्भेदाश्च अष्टादश लक्षा चतुर्विंशतिसहस्राः एकं शतं विंशतिश्च १८२४१२० भवन्ति, तद्यथा –सप्तनरकभवाः पर्याप्तापर्याप्तभेदेन १४, भूजलज्वलनवाय्वनन्तवनस्पतयः पर्याप्तापर्याप्तसूक्ष्मबादरभेदैः २०, प्रत्येकवनस्पतिद्वित्रिचतुरिन्द्रियाश्च पर्याप्ता अपर्याप्ताश्चेति ८, जलस्थलखचरा उरोभुजपरिसश्चि संश्यसंज्ञिपर्याप्तापर्याप्तभेदात् २०, एवं तिर्यग्भेदाः ४८। कर्मभुवः १५ अकर्मभुवः ३० अन्तरद्वीपा: ५६ एवं १०१ एषां, गर्भजानां पर्याप्तापर्याप्ततया २०२, संमूर्छजत्वेन पुनः ३०३ मनुष्यभेदाः । भवनपतयो १० व्यन्तराः १६ चरस्थिरभेदभिन्नज्योतिष्काः १० कल्पभवाः १२ ग्रैवेयकगाः ९ अनुत्तरोपपातिनः ५ लोकान्तिकाः ९ किल्बिषिका ३ भरतैरावतवैताढ्यदशकस्थाः "अन्ने १ पाणे २ सयणे ३, वत्थे ४ लेणे अ५ पुप्फ ६ फल ७ पुव्वा ८ । बहुफल ९ अविवत्तिजुआ १० जंभगादसविहा हुंति" ॥१॥[ ] त्ति । जृम्भका: १० परमाधार्मिका: १५, सर्वे पर्याप्तापर्याप्तभेदात् १९८ देवभेदाः । सर्वे मिलिता ५६३ जीवभेदाः । अभिहयेत्यादि १० पदगुणिताः ५६३०, रागद्वेषगुणिता ११२६०, योगत्रयगुणिताः ३३७८०, कृतकारितानुमतिभिर्गुणिताः १०१३४०, एते च कालत्रयगुणिताः ३०४०२०, तेऽर्हत्सिद्धसाधुदेवगुर्वात्मसाक्षिभिर्गुणिताः १८२४१२० जाताः । एतदर्थाभिधायिन्यो गाथा यथा - "चउदसपय १ अडचत्ता २, तिगहिअतिसया ३ सय च अडनउअं ४ । चउगइ दसगुण मिच्छा, पणसहसा छसयतीसा य ॥१॥[वि.स./८] नेरइआ सत्तविहा, पज्जअपज्जत्तणेण चउदसहा । अडचत्ताई संखा, तिरिनरदेवाण पुण एवं ॥२॥[वि.स./९] भूदग्गिवाउणंता, वीसं सेसतरु विगल अट्रेव । गब्भेअरपज्जेअर, जल १ थल २ नह ३ उर ४ भुआ ५ वीसं ॥३॥[वि.स./१०] १. मिच्छा मि दुक्कड' इति चैत्यवंदनमहाभाष्ये [गा० ३८२] पाठः ।। D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy