SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २५२] [धर्मसंग्रहः-द्वितीयोऽधिकार: क्व सति विराधना? 'गमणागमणे' गमनं चागमनं चेति समाहारद्वन्द्वतस्मिन् । तत्र गमनं स्वस्थानादन्यत्र यानम् , आगमनं च तद्व्यत्ययतः, सम्पत् २। तत्रापि कथं विराधनेत्याह –'पाणक्कमणे' इत्यादि प्राणिनो -द्वीन्द्रियादयस्तेषामाक्रमणे -सङ्घट्टने पादेन पीडने, तथा 'बीयक्कमणे हरियक्कमणे,' बीजाक्रमणे, हरिताक्रमणे, आभ्यां सर्वबीजानां शेषवनस्पतीनां च जीवत्वमाह, सम्पत् ३। तथा 'ओसाउत्तिंगपणगदगमट्टीमक्कडासंताणासंकमणे' अवश्यायः -त्रेहः, अस्य च ग्रहणं सूक्ष्मस्याप्यप्कायस्स परिहार्यत्वख्यापनार्थम् , उत्तिङ्गा -भूम्यां वृत्तविवरकारिणो गर्दभाकारा जीवाः कीटिकानगराणि वा, पनकः -पञ्चवर्णा फुल्लिः दकमृत्तिका -अनुपहतभूमौ चिक्खिल्लः, यद्वा दकम् -अप्कायो मृत्तिका -पृथ्वीकायः, मर्कट: -कोलिकस्तस्य सन्तानो -जालकं, ततश्चैषां पदानां द्वन्द्वः तेषां सङ्क्रमणे -आक्रमणे सम्पत् ४। किं बहुना ? 'जे मे जीवा विराहिया' ये केचन मया जीवा विराधिता –दुःखे स्थापिताः, सम्पत् ५। ते च के ? इत्याह –एगेंदिआ इत्यादि' एकमेव स्पर्शनरूपमिन्द्रियं येषां ते एकेन्द्रियाः -पृथिव्यादयः, एवं स्पर्शनरसनोपेता द्वीन्द्रिया: - शङ्खादयः, स्पर्शनरसनघ्राणयुक्तास्त्रीन्द्रियाः -कीटिकादयः, स्पर्शनरसनघ्राणचक्षःसमन्विताः चतुरिन्द्रियाः -वृश्चिकादयः, स्पर्शनरसनघ्राणचक्षुःश्रोत्रसहिताः पञ्चेन्द्रियाः - नारकतिर्यग्नरामरादयः, सम्पत् ६।। __विराधनाप्रकारमाह -'अभिहया इत्यादि' अभिमुखमागच्छन्तो हता अभिहताः - पादेन ताडिताः उत्क्षिप्य क्षिप्ता वा । 'वर्तिताः' पुञ्जीकृताः धूल्यादिना वा स्थगिताः । 'श्लेषिताः' भूम्यादौ लगिताः ईषत् पिष्टा वा । 'सङ्घातिताः' मिथो गात्रैः पिण्डीकृताः । 'सङ्घाट्टिताः' मनाक् स्पृष्टाः । 'परितापिताः' सर्वतः पीडिताः । 'क्लामिताः' ग्लानिं प्रापिताः मारणान्तिकसमुद्घातं नीता इत्यर्थः । 'अवद्राविता' उत्त्रासिताः । 'स्थानात् स्थानं सङ्क्रामिता' स्वस्थानात् परस्थानं नीताः । 'जीविताव्यपरोपिताः' मारिता इत्यर्थः । सम्पत् ७/ 'तस्स'त्ति अभिहयेत्यादिविराधनाप्रकारस्य 'मिच्छा मि दुक्कडंति मिथ्या मे दुष्कृतम् , एतद् दुष्कृतं मिथ्या-निष्फलं मे भवत्वित्यर्थः । अस्य चैतन्निरुक्तम् – १. बीअक्कं इति योगशास्त्रवृत्तौ प० ५९१ ॥ २. अवश्यायः जलविशेषः, अस्य-इति योगशास्त्रवृत्तौ प० ५९१ ॥ ३. पञ्चवर्णो-इति योगशास्त्रवृत्तौ प० ५९१ ॥ ४. चिक्खल्लः इति योगशास्त्रवृत्तौ प० ५९१ ॥ ५. अभिमुखागता हता इति योगशास्त्रवृत्तौ प० ५९२ ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy