________________
'इरियावहिया' सूत्रविवरणम्-श्लो० ६१॥]
[२५१ वंदमाणो अण्णेसिं असद्धं जणेइ इइ काऊणं"[म.नि./अ.७ ] त्ति । अत एव च पूजादिपुण्यक्रियाप्रान्ते सर्वत्राविध्याशातनानिमित्तं मिथ्यादुष्कृतं देयम् । अथ चेर्यापथिकी प्रतिक्रमणपूर्वकं चैत्यवन्दनमिति पूर्वमुक्तं, तच्च युक्तं, यतो महानिशीथे -"इरिआवहिआए अपडिक्कंताए न किंचि कप्पइ चेइअवंदणसज्झायावस्सयाइ काउं''[म.नि.] इति, अन्या अपि प्रतिक्रमणादिक्रिया एतत्प्रतिक्रमणपूर्विकाः शुद्धयन्ति । यतो विवाहचूलिकायाम् -
"दिव्विडिकुसुमसेहर, मुच्चइ दिव्वाहिगारमझमि । ठवणायरिअं ठविउं, पोसहसालाइ तो सीहो ॥१॥[वि.चू.] उम्मुक्कभूसणो सो, इरिआइपुरस्सरं च मुहपुत्तिं ।
पडिलेहिऊण तत्तो, चउव्विहं पोसहं कुणइ" ॥२॥[वि.चू.] त्ति । तथाऽऽवश्यकचूर्णावपि "तत्थ ढड्डरो नाम सावओ सरीरचिंतं काऊण पडिस्सयं वच्चइ, ताहे तेण पूरएण तिन्नि निसीहिआओ कयाओ, एवं सो इरिआई ढड्डरेण सरेण करेइ" [आ.चू.४०३] त्ति । तथा –
"ववहारावस्सयमहानिसीहभगवइविवाहचूलासु ।
पडिक्कमणचुण्णिमाइसु , पढमं इरिआपडिक्कमणं" [ ] इत्याधुक्तेः । अतः प्रथममीर्यापथिकीसूत्रं व्याख्यायते, तच्च ‘इच्छामि पडिक्कमिउं' इत्यादि 'तस्स मिच्छामि दुक्कडं' इत्यन्तम् । तत्र 'इच्छामि पडिक्कमिउं इरिआवहिआए विराहणाए'त्ति इच्छामि-अभिलषामि प्रतिक्रमितुं-प्रतीपं क्रमितुम् , ईरणमीर्या गमनमित्यर्थः तत्प्रधानः पन्था ईर्यापथः तत्र भवा ऐर्यापथिकी, विराधना-जन्तुबाधा, मार्गे गच्छतां या काचिद् विराधना भवति सा ऐर्यापथिकीत्युच्यते । तस्या ऐर्यापथिकीविराधनायाः सकाशात् प्रतिक्रमितुमिच्छामीति सम्बन्धः ।
अस्मिश्च व्याख्याने ईर्यापथनिमित्ताया एव विराधनायाः प्रतिक्रमणं स्याद् , न तु शयनादेरुत्थितस्य कृतलोचादेर्वा, तस्मादन्यथा व्याख्यायते -ईर्यापथः -साध्वाचार, यदाह - "ईर्यापथो ध्यानमौनादिकं भिक्षुव्रतम्"[ ] तत्र भवा ऐर्यापथिकी विराधना नद्युत्तरणशयनादिभिः साध्वाचारातिक्रमरूपा, तस्या विराधनायाः प्रतिक्रमितुमिच्छामीति सम्बन्धः । साध्वाचारातिक्रमश्च प्राणातिपातादिरूपः । तत्र च प्राणातिपातस्यैव गरीयस्त्वम् , शेषाणां तु पापस्थानानामत्रैवान्तर्भावः, अत एव प्राणातिपातविराधनाया ऐवोत्तरप्रपञ्चः । सम्पत् १।
१. दूरे ठितेण-आ. चूर्णौ ॥ २. इतः आरभ्य तुल्यप्रायं-योगशास्त्रवृत्तौ ३।१२४, प० ५९० तः ६०२ ॥ ३. एवोत्तर: प्र' इति योगशास्त्रवृत्तौ ॥
D:\new/d-2.pm5\3rd proof