SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २४२] [धर्मसंग्रहः-द्वितीयोऽधिकारः करधरिअजोगमुद्दो, पए पए पाणिरक्खणाउत्तो। दिज्जा पयाहिणतिगं, एगग्गमणो जिणगुणेसुं ॥३॥[चे.वं.म./१९१] गिहचेइएसु न घडइ, इअरेसु वि जइ वि कारणवसेणं । तह वि न मुंचइ मइमं, सया वि तक्करणपरिणाम" ॥४॥[चे.वं.म./१९२] प्रदक्षिणादाने च समवसरणस्थचतूरूपं श्रीजिनं ध्यायन् गर्भागारदक्षिणपृष्ठवामदिक्त्रयस्थबिम्बत्रयं वन्दते । अत एव सर्वस्यापि चैत्यस्य समवसृतिस्थानीयतया गर्भगृहबहिर्भागे दिक्त्रये मूलबिम्बनाम्ना बिम्बानि कुर्वन्ति, एवं च 'वर्जयेदर्हतः पृष्ठम्'इत्युक्तोऽर्हत्पृष्ठनिवासदोषोऽपि चतुर्दिक्षु निवर्त्तते, ततश्चैत्यप्रमार्जनपोतकलेख्यकादिवक्ष्यमाणयथोचितचिन्तापूर्वं विहितसकलपूजासामग्रीको जिनगृहव्यापारनिषेधरूपां द्वितीयां नैषेधिकी मुखमण्डपादौ कृत्वा मूलबिम्बस्य प्रणामत्रयपूर्वकं पूर्वोक्तविधिना पूजां कुरुते । यद् भाष्यम् - "तत्तो निसीहिआए, पविसित्ता मंडवंमि जिणपुरओ। महिनिहिअजाणुपाणी, करेइ विहिणा पणामतिगं ॥१॥[चे.वं.म./१९३] तयणु हरिसुल्लसंतो, कयमुहकोसो जिणिंदपडिमाणं । अवणेइ रयणिवसिअं, निम्मल्लं लोमहत्थेणं ॥२॥[चे.वं.म./१९४] जिणगिहपमज्जणं तो, करेइ कारेइ वा वि अन्नेणं। जिणबिंबाणं पूअं, तो विहिणा कुणइ जहजोगं" ॥३॥[चे.वं.म./१९५] अत्र च विशेषतः शुद्धगन्धोदकप्रक्षालन-कङ्कममिश्रगोशीर्षचन्दनविलेपनाङ्गीरचनगोरोचनमृगमदादिपत्रभङ्गकरण-नानाजातीयपुष्पमालारोपण-चीनांशुकवस्त्रपरिधापनकृष्णागुरुमिश्रकर्पूरदहनानेकदीपोद्योतन-स्वच्छाखण्डाक्षताष्टमङ्गलालेखन-विचित्रपुष्पगृहरचनादि विधेयम् । यदि च प्राक् केनापि पूजा कृता स्यात् तदा विशिष्टान्यपूजासामग्र्यभावे तां नोत्सारयेत् , भव्यानां तद्दर्शनजन्यपुण्यानुबन्धिपुण्यबन्धस्यान्तरायप्रसङ्गात् , किन्तु तामेव विशेषयेद् । यद् बृहद्भाष्यम् - "अह पुव्वि चिअ केणइ, हविज्ज पूआ कया सुविहवेणं । तं पि सविसेससोहं, जह होइ तहा तहा कुज्जा ॥१॥ [चे.वं.म./१९६, सं.प्र.१५९] १. बहिर्भागादित्रये-मु० । 'बहिर्भागदिक्त्रये C. I P.L. श्राद्धविधिवृत्तौ च बहिर्भागे दिक्त्रयेइति ॥ २. पृष्ठमित्युक्तेरह L. || ३. खिइनि० मु० | L.P.C. चैत्यवन्दनभाष्ये श्राद्धविधिवृत्तावपि महिनि० इति ।। ४. कीरेइ-P.C. ॥ ५. पूअं करेइ तत्तो जहाजोगं-इति चैत्यवन्दनभाष्ये ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy