________________
जिनपूजास्वरूपम् - श्लो० ६१ ॥ ]
[ २४१
ओणयाए गायलट्ठीए'[ ]त्ति एतावता शक्रस्तवपाठादावप्यासां शिरस्यञ्जलिन्यासो न युज्यते, तथाकरणे हृदादिदर्शनप्रसक्तेः, यत्तु "करयलं जाव कट्टु एवं वयासी " [ ] इत्युक्तं द्रौपदीप्रस्तावे तद्भक्त्यर्थं न्युञ्छनादिवदञ्जलिमात्र भ्रमणसूचनपरम्, न तु पुरुषैः सर्वसाम्यार्थं, न च तथास्थितस्यैव सूत्रोच्चारख्यापनपरं वा, अन्यदपि नृपादिविज्ञपनादावप्यादौ तथा भणनात्' [ तुला सङ्घाचारवृत्ति प० १५२ - ३ ] इत्याद्युक्तप्रायं परिभाव्यमत्रागमाद्यविरोधेनेति ] मनसश्चेकाग्र्यं कुर्वन्निति पञ्चविधाभिगमेन नैषेधिकीपूर्वं प्रविशति । यदाह -
I
"सच्चित्ताणं दव्वाणं विउसरणयाए १ । अचित्ताणं दव्वाणं अविउसरणयाए २। एगल्लसाडएणं उत्तरासंगेणं ३ । चक्खुफासे अंजलिपग्गहेणं ४ । मणसो एगत्तीकरणेणं ५" त्ति [ भगवतीसूत्र २५, ज्ञाताधर्मकथा अध्ययन १ सू० २२, प० ४६A ]
राजादिस्तु चैत्यं प्रविशंस्तत्कालं राजचिह्नानि त्यजति । यतः –
44
'अवहट्टु रायककुआई, पंच वररायककुअरूवाइं ।
खग्गं १ छत्तो २ वाणह ३ मउडं ४ तह चामराओ अ" ॥१॥ [ विचारसारे गा० ६६५, श्राद्धदिनकृत्ये गा० ५०] अग्रद्वारप्रवेशे मनोवाक्कायैर्गृहव्यापारो निषिध्यते इति ज्ञापनार्थं नैषेधिकीत्रयं क्रियते, परमेकैवैषा गण्यते, गृहादिव्यापारस्यैकस्यैव निषिद्धत्वात्, कृतायां च नैषेधिक्यां सावद्यव्यापारवर्ज्जनमेव न्याय्यम्, अन्यथा तद्वैयर्थ्यापत्तेः । यतो दिनकृत्ये -
I
"मिहो कहाउ सव्वाउ, जो वज्जेइ जिणालए ।
तस्स निसीहिआ होइ, इइ केवलिभासिअं " ॥१॥ [ श्राद्ध.गा. ५६ ] ति । ततो मूलबिम्बस्य प्रणामं कृत्वा सर्वं हि प्रायेणोत्कृष्टं वस्तु श्रेयस्कामैर्दक्षिणभाग एव विधेयमित्यात्मनो दक्षिणाङ्गभागे मूलबिम्बं कुर्वन् ज्ञानादित्रयाराधनार्थं प्रदक्षिणात्रयं करोति । उक्तं च –
" तत्तो नमो जिणाणं त्ति भणिअ अद्धोणयं पणामं च । काउं पंचगं वा, भत्तिब्भरनिब्भरमणेणं ॥१॥ [ चे.वं.म./१८९] पूअंगपाणिपरिवारपरिगओ गहिरमहुरघोसेण ।
पढमाणो जिणगुणगणनिबद्धमंगल्लथुत्ताइं ॥२॥ [ चे.वं.म./ १९० ]
१. शकस्तवपाठादप्यासां - C. मूल । शक्रस्तवपाठादावप्यासां - C. संशो० । शक्रस्तवादावप्यासां इति सङ्घाचारभाष्यवृत्तौ ।। २. अन्यत्रापि इति सङ्घाचारभाष्यवृत्तौ ॥ ३. तुला - श्राद्धविधिवृत्तिः प० ५२तः, योगशास्त्रवृत्तिः ३ । १२४ प० ५८२तः प्रवचनसारोद्धारवृत्तिः प० ३६ ।। ४. अग्रद्वाः प्रवेशेमु० । C. श्राद्धविधिवृत्तावपि अग्रद्वारप्रवेशे - इति ॥ ५. तुला सङ्घाचारभाष्यवृत्तिः प० ४६ ॥ D:\new/d-2.pm5\3rd proof