________________
२३४]
[ धर्मसंग्रहः- द्वितीयोऽधिकारः (अन्या) तु स्यादपि, न नैव, यद् - यस्मात्, समये - सिद्धान्ते, भणितेतिशेषः, तेषां तद्योग्यताविकलत्वादिति गाथार्थ: " [ पञ्चाशकटीका प० ५४ ]
इत्थं च भाववन्दनायाः शुद्धद्रव्यवन्दनायाश्चाधिकारिणोऽपि एते त्रय एव, सकृद्बन्धकादीनां तु अशुद्धद्रव्यवन्दनैव । यतस्तत्रैव -
"एतेऽहिगारिणो इह, ण उ सेसा दव्वओ वि जं एसा ।
इअरीऍ जोग्गयाए, सेसाण उ अप्पहाण त्ति" ॥१॥ [ पञ्चा.३।७ ] कण्ठ्या ॥
नवरं ‘इयरीऍ’त्ति इतरस्या भाववन्दनाया योग्यत्वेन या प्रधाना द्रव्यवन्दना साऽधिकारिणाम्, शेषाणां सकृद्बन्धकादीनां तु भाववन्दनाया अकारणत्वादप्रधानेतिभावः । * एवं च जघन्याद्येकैकस्या अपि चैत्यवन्दनाया अधिकारित्रयसंभवान्नवधा चैत्यवन्दनेति ज्ञेयम्* ।
इह च केचिन्मन्यन्ते – शक्रस्तवमात्रमेव वन्दनं श्रावकस्य युक्तम्, , जीवाभिगमादिषु तन्मात्रस्यैव तस्य देवादिभिः कृतत्वेन प्रतिपादितत्वात्, ततस्तदाचरितप्रामाण्यात् तदधिकतरस्य च गणधरादिकृतसूत्रेऽनभिधानान्न शक्रस्तवातिरिक्तं तदस्तीति । अत्रोच्यते - यदुक्तमाचरितप्रामाण्यादिति तदयुक्तम्, यतो यदिदं जीवाभिगमादिसूत्रं तद्विजयदेवादिचरितानुवादपरमेवेति न ततो विधिवादरूपाधिकृतवन्दनोच्छेदः कर्तुं शक्यः, तेषां ह्यविरतत्वात् प्रमत्तत्वाच्च तावदेव तत् युक्तम्, तदन्येषां पुनरप्रमादविशेषवतां विशेषभक्तिमतां तदधिकत्वेऽपि न दोषः । यदि पुनराचरितमवलम्ब्य प्रवृत्तिः कार्या तदा बह्वन्यदपि कर्त्तव्यं स्याद्, विधेयतयाऽङ्गीकृतमपि वर्ज्जनीयं स्यादिति । यच्चोक्तम् “तदधिकतरस्यानभिधानादि" [ ] इति तदयुक्तम्, " तिण्णि वा कढई जाव, थुईओ तिसिलोइआ " [ गा० ३७७५ ] इत्यादिव्यवहारभाष्यवचनश्रवणात्, साध्वपेक्षया तदिति चेत्, मैवम्, साधुश्रावकयोदर्शनशुद्धेः कर्त्तव्यत्वाद्, दर्शनशुद्धिनिमित्तत्वाच्च वन्दनस्य । तथा संवेगादिकारणत्वादशठसमाचरितत्वाज्जीतलक्षणस्ये होपपद्यमानत्वात् चैत्यवन्दनभाष्यकारादिभिरेतत्करणस्य समर्थितत्वाच्च तदधिकतरमपि नायुक्तमित्यलं प्रसङ्गेन ।
चैत्यवन्दनाश्च प्रत्यहं सप्त महानिशीथे साधोः प्रोक्ताः, श्राद्धस्याप्युत्कर्षतः सप्त । यद् भाष्यम् –
“पडिकमणे १ चेइअ २ जिमण ३ चरिम ४ पडिक्कमण ५ सुअण ६ पडिबोहे ७ । चिइवंदण इअ जइणो, सत्त उ वेला अहोरत्ते ॥१॥ [ चै.मू.भा./गा. ५९ ]
१. L.P.C. । `णं ति-मु० ॥ २. ** चिह्नद्वयमध्यवर्तिपाठः मु० मध्ये [ ] कोष्ठके C. प्रतौ पार्श्वभागे । ३. तुला - श्राद्धविधिवृत्तिः प० ५७ ॥
D:\new/d-2.pm5\3rd proof