________________
चैत्यवन्दनस्वरूपम्-श्लो० ६१॥]
[२३५ "पंडिकमिणो( मओ) गिहिणो वि हु , सगवेला पंचवेल इअरस्स ।
पूआसु तिसंज्ञासु अ, होइ तिवेला जहन्नेणं" ॥२॥ [ चै.मू.भा./गा.६०] तत्र द्वे आवश्यकयोः २ द्वे स्वापावबोधयोः ४ त्रिकालपूजानन्तरं तिस्रश्चेति सप्त ७, एकावश्यकरणे तु षट् , स्वापादिसमये तदकरणे पञ्चादयोऽपि, बहुदेवगृहादौ तु समधिका अपि, यदा पूजा न स्यात् तदापि त्रिसन्ध्यं देवा वन्द्याः श्राद्धेन । यद् आगमः -
"भो भो देवाणुप्पिआ ? अज्जप्पभिइए जावजीवाए तिकालिअं अव्वक्खित्ताचलेगग्गचित्तेणं चेइए वंदिअव्वे, इणमेव भो मणुअत्ताओ असुइअसासयखणभंगुराओ सारं ति, तत्थ पुव्वण्हेसु ताव उदगपाणं न कायव्वं जाव चेइए साहू अ न वंदिए, तह मज्झण्हे ताव असणकिरिअं न कायव्वं जाव चेइए न वंदिए, तहा अवरण्हे चेव तहा कायव्वं जाव अवंदिएहिं चेइएहिं नो सिज्जायलमइक्कमिज्ज"[ ] त्ति । तथा "सुपभाए समणोवासगस्स पाणं पि कप्पइ न पाउं ।
नो जाव चेइआइं, साहू वि अवंदिआ विहिणा ॥१॥[] मज्झण्हे पुणरवि वंदिऊण निअमेण कप्पई भोत्तुं ।
पुण वंदिऊण ताइं, पओससमयंमि तो सुअइ" ॥२॥[ ] त्ति । उत्कृष्टतश्चैत्यवन्दनविधिश्च सविस्तरमग्रे वक्ष्यते ।
गीतनृत्याद्यग्रपूजायामुक्तं भावपूजायामप्यवतरति, तच्च महाफलत्वान्मुख्यवृत्त्या स्वयं करोत्युदायननृपराज्ञी प्रभावती यथा । यन्निशीथचूर्णि: -
"पभावई ण्हाया कयबलिकम्मा कयकोउअमंगल्ला सुक्किल्लवासपरिहिआ जाव अट्ठमीचउद्दसीसु अ भत्तिरागेण य सयमेव राओ नट्टोवयारं करेइ, राया वि तयाणुवित्तीए मुरयं वाएति" [नि.चू.] पूजाकरणावसरे चार्हच्छद्मस्थकेवलिस्थसिद्धस्थावस्थात्रयं भावयेत् । यद् भाष्यम् -
"ण्हवणच्चगेहिं छउमत्थ १ वत्थपडिहारगेहिँ केवलिअं२।
पलिअंकुस्सग्गेहि अ,जिणस्स भाविज्ज सिद्धत्तं" ॥१॥[चै.मू.भा./गा.१२] स्नापकैः परिकरोपरिघटितगजारूढकरकलितकलशैरमरैरर्चकैश्च तत्रैव घटितमालाधारैः कृत्वा जिनस्य छद्मस्थावस्थां भावयेत् । छद्मस्थावस्था त्रिधा -जन्मावस्था १, राज्यावस्था
१. पडिकमिणो-L.P.C. । पडिकमओ-इति श्राद्धविधिवृत्तौ चैत्यवन्दनभाष्ये च ।। २. सप्तधिका-इति श्राद्धविधिवृत्तौ ॥ ३. जावज्जीवं-इति श्राद्धविधिवृत्तौ ॥ ४. हाया-मु० C. नास्ति । L.P. श्राद्धविधिवृत्तावपि अस्ति ।।
D:\new/d-2.pm5\3rd proof