SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ अंग-अग्रपूजास्वरूपम्-श्लो० ६१॥] [२२९ गंथदिट्ठ त्ति -ग्रन्थे -प्रतिष्ठाषोडशकादौ दृष्टा । तदुक्तं - "व्यक्त्याख्या खल्वेका, क्षेत्राख्या चापरा महाख्या च । यस्तीर्थकृद्यदा किल, तस्य तदाद्येति समयविदः ॥१॥[ षोड./८/२] ऋषभाद्यानां तु तथा, सर्वेषामेव मध्यमा ज्ञेया। सप्तत्यधिकशतस्य तु , चरमेह महाप्रतिष्ठेति" ॥२॥[ षोड./८/३] इत्थं च एकस्यार्हतः प्रतिमा व्यक्त्याख्या १, एकत्र पट्टादौ चतुर्विशितिः प्रतिमाः क्षेत्राख्या २, एवं सप्ततिशतप्रतिमा महाख्या ३। "मालाधराइआण वि, धुवणजलाई फुसेइ जिणबिंबं । पुत्थयपत्ताईण वि, उवरुवरि फरिसणाईअं ॥५॥[सं.प्र.दे./१७८ ] ता नज्जई नो दोसो, करणे चउवीसवट्टयाईणं । आयरणाजुत्तीओ, गंथेसु अ दिस्समाणत्ता" ॥६॥[सं.प्र.दे./१७९] बृहद्भाष्येऽप्युक्तम् - "जिणरिद्धिदंसणत्थं, एगं कारेइ कोइ भत्तिजुओ। पायडिअपाडिहेरं, देवागमसोहिअं चेव ॥१॥[चे.वं.म./२७ ] दसणनाणचरित्ताऽऽराहणकज्जे जिणत्तिअं कोई । परमिट्ठिनमोक्कारं, उज्जमिउं कोइ पंच जिणा ॥२॥[चे.वं.म./२८] कल्लाणयतवमहवा, उज्जमिउं भरहवासभावि त्ति । बहुमाणविसेसाओ, केई कारिति चउवीसं ॥३॥ [चे.वं.म./२९ ] उक्कोस सत्तरिसयं, नरलोए विहरइ त्ति भत्तीए। सत्तरिसयं पि कोई, बिंबाणं कार धणड्डो" ॥४॥[चे.वं.म./३०] तस्मात् त्रितीर्थीपञ्चती चतुर्विंशतिपट्टादिकारणं न्याय्यमेव दृश्यते । तथा सति तत्प्रक्षालनाद्यपि निर्दोषमेव । अङ्गरूक्षणं हस्तादि च पृथक्भाजनस्थशुद्धजलेन क्षाल्यम् , नतु प्रतिमाक्षालनजलेन, चन्दनादिवदिति जिनस्नपनविधिः ।। __ अथ पूजाविधिः –पूजा चाङ्गाग्रभावभेदात् त्रिधा-तत्र स्नपनमङ्गपूजैव, ततः "अंहि २ जानु ४ करां ६ ऽसेषु ८ मूर्ध्नि ९ पूजां यथाक्रमम्"[ ] इत्युक्तेर्वक्ष्यमाणत्वात् सृष्ट्या नवाङ्गेषु कर्पूरकुङ्कमादिमिश्रगोशीर्षचन्दनादिनाऽर्चयेत् । केऽप्याहुः -पूर्वं भाले तिलकं १. धु(ग्रह)वण मु० । L.P.C. श्राद्धविधिवृत्तौ च धुवण० इति ॥ २. जिणे-इति चेइयवंदणमहाभास-श्राद्धविधिवृत्त्योश्च ॥ ३. कारंति-इति श्राद्धविधिवृत्तौ ॥ ४. L.P.C. अघ्रि-मु०॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy