________________
२२८]
[धर्मसंग्रहः-द्वितीयोऽधिकारः ___ ततः सम्यग् श्रीजिनप्रतिमाः प्रमाय॑ उच्चैःस्थाने भोजनादावव्यापार्यपवित्रपात्रे संस्थाप्य च करयुगधृतशुचिकलशादिनाऽभिषिञ्चेत् । जलं च पूर्वं घुसृणाधुन्मिश्रं कार्यम् । यतो दिनकृत्ये -
"घुसिणकप्पुरमीसं तु , काउं गंधोदगं वरं।
तओ भुवणनाहस्स, ण्हवेई भत्तिसंजुओ ॥१॥[श्रा.दि./गा.५९] घुसृणं -कुङ्कमम् , कर्पूरो-घनसारस्ताभ्यां मिश्रम् , तुशब्दात् सौषधिचन्दनादिपरिग्रहः इति तवृत्तिः । स्नपनकाले च -
"बालत्तणंमि सामिय !, सुमेरुसिहरंमि कणयकलसेहिं ।
तिअसासुरेहि ण्हविओ, ते धन्ना जेहि दिट्ठोऽसि" ॥[ ] इत्यादि चिन्त्यम् । पूजाक्षणे च मुख्यवृत्त्या मौनमेव कार्य, तदशक्तौ सावद्यं वचस्त्याज्यमेव । अन्यथा नैषेधिकीकरणनैरर्थक्यापत्तिः, कण्डूयनाद्यपि हेयमेव । यतः -
"कायकण्डूअणं वज्जे, तहा खेलविगिंचणं ।
थुइथुत्तभणणं च(चेव), पूअंतो जगबंधुणो" ॥१॥ [ श्रा.दि./गा.५८ ] ततः सुयत्नेन वालककूर्चिकां व्यापा_केनाङ्गरूक्षणेन सर्वतो निर्जलीकृत्य द्वितीयेन च धूपितमृदूज्ज्वलेन ते मुहुः मुहुः सर्वतः स्पृशेत् , एवमङ्गरूक्षणद्वयेन सर्वप्रतिमा निर्जलीकार्याः । यत्र यत्र स्वल्पोऽपि जलक्लेदः तिष्ठति तत्र तत्र श्यामिका स्यादिति सा सर्वथा व्यपास्यते । न च पञ्चतीर्थीचतुर्विंशतिपट्टकादौ मिथः स्नात्रजलस्पर्शादिना दोष आशङ्क्यो । यदाहुः
"रायप्पसेणइज्जे, सोहम्मे सूरिआभदेवस्स । जीवाभिगमे विजयापुरीइ विजयाइदेवाणं ॥१॥[ ] भिंगाइलोमहत्थयलूहणया धूवदहणमाईअं। पडिमाणं सकहाण य, पूआए इक्कयं भणिअं ॥२॥[सं.प्र.दे./१७५ ] निव्वुअजिणिंदसकहा, सग्गसमुग्गेसु तिसु वि लोएसु । अन्नोन्नं संलग्गा, ण्हवणजलाईहिं संपुट्ठा ॥३॥[सं.प्र.दे./१७६ ] पुव्वधरकालविहिआ, पडिमा दीसंति केसु वि पुरेसुं ।
वत्तक्खा १ खेत्तक्खा २ महक्खया ३ गंथदिट्ठा य" ॥४॥[सं.प्र.दे./१७७] १. भुवणनाहे उ-इति श्राद्धदिनकृत्ये ॥ २. घुसृणं चन्दनं कर्पूरं घनसार....इति श्राद्धदिनकृत्यवृत्तौ पाठः ॥ ३. च पूअंतो-L.P.C. । चेव पूयंतो-इति सङ्घाचारभाष्ये प० ६२ ॥ ४. यत्र स्वल्पोऽपि-L.P.C. I तुला-श्राद्धविधिवृत्तिः प० ५५ ॥
D:\new/d-2.pm5\3rd proof