________________
स्नानान्तरकर्त्तव्यम्-श्लो० ६१॥]
[२२५ एवं च देवपूजाद्यर्थमेव गृहस्थस्य द्रव्यस्नानमनुमतम् , तेन द्रव्यस्नानं पुण्यायेति यत् प्रोच्यते तन्निरस्तं मन्तव्यम् , भावस्नानं च शुभध्यानरूपम् । यतः -
"ध्यानाम्भसा तु जीवस्य, सदा यच्छुद्धिकारणम् ।
मलं कर्म समाश्रित्य, भावस्नानं तदुच्यते" ॥१॥[अ.प्र. २।६] इति । कस्यचित् स्नाने कृतेऽपि यदि गडुक्षतादि स्रवति, तदा तेनाङ्गपूजां स्वपुष्पचन्दनादिभिः परेभ्य: कारयित्वाऽग्रपूजा भावपूजा च स्वयं कार्या । वपुरपावित्र्ये प्रत्युताशातनासम्भवेन स्वयमङ्गपूजाया निषिद्धत्वाद् । उक्तं च -
"निःशूकत्वादशौचेऽपि, देवपूजां तनोति यः।
पुष्पैर्भूपतितैर्यश्च, भवतः श्वपचाविमौ" ॥१॥[ ] इति । तत्र स्नानानन्तरं पवित्रमृदुगन्धकाषायिकाद्यंशुकेनाङ्गरूक्षणं तथा पोतिकमोचनपवित्रवस्त्रान्तरपरिधानादियुक्त्या क्लिन्नाघिभ्यां भूमिमस्पृशन् पवित्रस्थानमागत्योत्तरामुखः संव्ययते दिव्यं नव्यमकीलितं श्वेतांशुकद्वयम् । यतः -
"विशुद्धि वपुषः कृत्वा, यथायोग्यं जलादिभिः ।
धौतवस्त्रे वसीत द्वे, विशुद्धे धूपधूपिते" ॥१॥[] लोकेऽप्युक्तम् -
"न कुर्यात् सन्धितं वस्त्रं, देवकर्मणि भूमिप !। न दग्धं न तु वै च्छिन्नं, परस्य तु न धारयेत् ॥१॥[] कटिस्पृष्टं तु यद्वस्त्रं, पुरीषं येन कारितम् ।। समूत्रमैथुनं वाऽपि, तद्वस्त्रं परिवर्जयेत् ॥२॥[ ] "एकवस्त्रो न भुञ्जीत, न कुर्याद् देवतार्चनम् ।
न कञ्चुकं विना कार्या, देवार्चा स्त्रीजनेन तु" ॥३॥[] एवं हि पुंसां वस्त्रद्वयं स्त्रीणां च वस्त्रत्रयं विना देवपूजादि न कल्पते । धौतवस्त्रं च मुख्यवृत्त्याऽतिविशिष्टं क्षीरोदकादिकं श्वेतमेव कार्यम् , उदायननृप-प्रभावतीप्रभृतीनामपि
१. तुला-श्राद्धविधिवृत्तिः प० ४९ ॥ २. शौचोऽपि-इति श्राद्धविधिवृत्तौ ॥ ३. तुलाश्राद्धविधिवृत्तिः प० ४९ ॥ ४. णपौतिक इति श्राद्धविधिवृत्तौ ।। ५. 'त्तराभिमुखः-इति श्राद्धविधिवृत्तौ ।। ६. द्धं-L.P.C. ।। ७. गं-C. संशो. ।। ८. च सीते द्वे-इति श्राद्धविधिवृत्तौ ॥ ९. वै च्छिनं-L.P.C. श्राद्धविधिवृत्तौ च । वै च्छिन्नं (विच्छिन्नं)-मु० ॥ १०. चाऽपि-इति श्राद्धविधिवृत्तौ ॥
D:\new/d-2.pm5\3rd proof