________________
२२४]
[धर्मसंग्रहः-द्वितीयोऽधिकारः "भावशुद्धेनिमित्तत्वात् , तथानुभवसिद्धितः।
कथञ्चिद्दोषभावेऽपि, तदन्यगुणभावतः" ॥३॥ [ स्नानाष्टके/श्लो.४] युग्मम् ॥ दोषोऽप्कायविराधनादिः, तस्माद् दोषादन्यो गुणः -सद्दर्शनशुद्धिलक्षणः । यदुक्तम् – "पूआए कायवहो, पडिकुट्ठो सो उ किं तु जिणपूआ।
सम्मत्तसुद्धिहेउ त्ति भावणीआ उणिरवज्जा" ॥१॥[ ]
अन्यत्राऽप्युक्तम् – “द्रव्यस्नानादिके यद्यपि षट्कायोपमर्दादिका काचिद् विराधना स्यात् , तथापि कूपोदाहरणेन श्रावकस्य द्रव्यस्तवः कर्तुमुचितः" । यदाहुः -
"अकसिणपर्वत्तगाणं, विरयाविरयाण एस खलु जुत्तो।
संसारपयणुकरणे, दव्वथए कूवदितो" ॥१॥ [ पञ्चाशकप्र.४/४२ ]
इदमुक्तं भवति –यथा कूपखननं श्रमतृष्णाकर्दमोपलेपादिदोषदुष्टमपि जलोत्पत्तावनन्तरोक्तदोषानपोह्य स्वोपकाराय परोपकाराय च किल भवति, इत्येवं स्नानादिकमप्यारम्भदोषमपोह्य शुभाध्यवसायोत्पादनेन विशिष्टाशुभकर्मनिर्जरणपुण्यबन्धकारणं भवतीति । इह केचिन्मन्यन्ते –पूजार्थस्नानादिकरणकालेऽपि निर्मलजलकल्पशुभाध्यवसायस्य विद्यमानत्वेन कर्दमलेपादिकल्पपापाभावाद्विषममिदमित्थमुदाहरणम् । ततः किलेदमित्थं योजनीयं –यथा कूपखननं स्वपरोपकाराय भवति, एवं स्नानपूजादिकं करणानुमोदनद्वारेण स्वपरयोः पुण्यकारणं स्यादिति । न चैतदागमाननु(मानु)पाति, यतो धर्मार्थप्रवृत्तावप्यारम्भजनितस्याल्पपापस्येष्टत्वात् । कथमन्यथा भगवत्यामुक्तम् -
"तहारूवं समणं वा माहणं वा पडिहयपच्चक्खायपावकम्मं अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे भंते ! किं कज्जइ ? गो० ! अप्पे पावे कम्मे बहुअरिआ से णिज्जरा कज्जइ''।[भ.सू.] ___तथा ग्लानप्रतिचरणानन्तरं पञ्चकल्याणकप्रायश्चित्तप्रतिप्रतिरपि कथं स्यादिति पञ्चाशकवृत्तौ [ ४।१०]। तत्सूत्रमपि - "हाणाइ वि जयणाए, आरंभवओ गुणाय णिअमेणं । सुहभावहेउओ खलु , विण्णेअं कूवणाएणं" ॥१॥[ पञ्चा.४/१०] इत्यलं प्रसङ्गेन ।
१. युग्मम्-मु० नास्ति । L.P.C. श्राद्धविधिवृत्तावपि अस्ति । २. P. I °वत्तमाणं-L.C. || ३. आगमाननुपाति-L.P.C. । अत्र C. प्रतौ एतादृशं चिह्नम् कृत्वा पार्श्वभागे 'प्रथमाशये'-इति लिखितम् प० ८८A || ४. असण४पडिलाभेमाणे-L.P.C. ॥ ५. अत्र C. प्रतौ एतादृशं चिह्नम् कृत्वा पार्श्वभागे-'द्वितीयाशये'-इति लिखितम् ।। ६. L.P.C. I °ण-मु० ॥
D:\new/d-2.pm5\3rd proof