SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ स्नानविधिः-श्लो० ६१॥] [२२३ "मूत्रोत्सर्गं मलोत्सर्गं, मैथुनं स्नानभोजनम् । सन्ध्यादिकर्म पूजां च, कुर्याज्जापं च मौनवान्" ॥१॥[ ] विवेकविलासेऽपि - "मौनी वस्त्रावृत्तः कुर्याद्दिनसन्ध्याद्वयेऽपि च । उदङ्मुखः शकृन्मूत्रे, रात्रौ याम्याननः पुनः" ॥१॥[वि.वि./१-४८] इति । दन्तधावनमपि - "अवक्राऽग्रन्थिसत्कूर्च, सूक्ष्माग्रं च दशाङ्गलम् । कनिष्ठाग्रसमस्थौल्यं, ज्ञातवृक्षं सुभूमिजम् ॥१॥ [ व्य.शा.] कनिष्ठिकानामिकयोरन्तरे दन्तधावनम् । आदाय दक्षिणां दंष्ट्रां, वामां वा संस्पृशस्तले ॥२॥[व्य.शा.] तल्लीनमानसः स्वस्थो, दन्तमांसव्यथां त्यजन् । उत्तराभिमुखः प्राचीमुखो वा निश्चलासनः" ॥३॥[व्य.शा.] इत्यादि नीतिशास्त्रोक्तविधिना विधेयम् । गण्डूषोऽपि - "अभावे दन्तकाष्ठस्य, मुखशुद्धिविधिः पुनः । कार्यो द्वादशगण्डूषैजिह्वोल्लेखस्तु सर्वदा" ॥१॥[व्य.शा.] इति विधिना कार्योऽप्रत्याख्यानिना, प्रत्याख्यानिनस्तु दन्तधावनादि विनापि शुद्धिरेव, तपसो महाफलत्वात् । इदं च द्रव्यस्नानं वपुःपावित्र्यसुखकरत्वादिना भावशुद्धिहेतुः । उक्तं चाष्टके - "जलेन देहदेशस्य, क्षणं यच्छुद्धिकारणम् । प्रायोऽन्यानुपरोधेन, द्रव्यस्नानं तदुच्यते" ॥१॥[स्नानाष्टके श्लो.२] देहदेशस्य त्वङ्मात्रस्यैव, क्षणं न तु प्रभूतकालम् , प्राय: शुद्धिहेतुर्नत्वेकान्तेन, तादृग्रोगग्रस्तस्य क्षणमप्यशुद्धः, प्रक्षालनार्हमलादन्यस्य मलस्य कर्णनासाद्यन्तर्गतस्यानुपरोधेन - अप्रतिषेधन यद्वा प्रायोजलादन्येषाप्राणिनामनुपरोधन-अव्यापादनेनद्रव्यस्नान-बाह्यस्नानमित्यर्थः। "कत्वेदं यो विधानेन, देवतातिथिपूजनम् । करोति मलिनारम्भी, तस्यैतदपि शोभनम्" ॥२॥ [स्नानाष्टके श्लो.३] विधानेन -विधिना, अतिथिः -साधुः, मलिनारम्भी गृहस्थः । द्रव्यस्नानस्य शोभनत्वे हेतुमाह - १. तुला-श्राद्धविधिवृत्तिः ५० ४७ ।। २. तुला-श्राद्धविधिवृत्तिः प० ४८ ॥ ३. मलस्य-मु० C. नास्ति । L.P. श्राद्धविधिवृत्तावपि मलस्य-इति अस्ति ।। D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy