SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २२२] [धर्मसंग्रहः-द्वितीयोऽधिकारः क्रियाकारकसंबन्धः । तत्र जिनपूजाया उत्सर्गतः उचितः कालः सन्ध्यात्रयरूपः, अपवादतस्तु वृत्तिक्रियाऽविरोधेन आभिग्रहिकः । यत उक्तं पञ्चाशके - "सो पुण इह विण्णेओ, संझाओ तिण्णि ताव आहेणं ।। वित्तिकिरिआऽविरुद्धो, अहवा जो जस्स जावइओ" ॥१॥[पञ्चा.४/५] अस्या अपरार्द्धव्याख्या -वृत्तिक्रिया:-राजसेवा-वणिज्यादीनि कर्माणि, तासामविरुद्धः -अबाधको वृत्तिक्रियाऽविरुद्धः, अथवेति विकल्पार्थः, ततश्चापवादत इत्युक्तं भवति, यः पूर्वाह्लादिर्यस्य-राजसेवक-वाणिजकादे: जावइओ' त्ति यत्परिमाणो यावान् स एव यावत्को -मुहूर्तादिपरिमाणः, स तस्य तावत्कः पूजाकालो भवति, न पुनः सन्ध्यात्रयरूप एवेति । सम्यग् स्नात्वा संस्नाप्य चेत्यत्र सम्यक्पदाभ्यां सकलोऽपि स्नानादिविधिर्जिनप्रतिमास्नपनादिविधिश्च सूचितः । तत्र स्नानविधिः -उत्तिङ्गपनककुन्थ्वाद्यसंसक्तवैषम्यशूषिरादिदोषादूषितभूमौ परिमितवस्त्रपूतजलेन संपातिमसत्त्वरक्षणादियतनारूपः, उक्तं च दिनकृत्ये - "तसाइजीवरहिए, भूमिभागो विसुद्धए । फासुएणं तु नीरेणं, इअरेणं गलिएण उ॥१॥[श्रा.दि./गा.२३ ] काऊणं विहिणा पहाणं" [श्रा.दि./गा.२४पू.] ति । तत्र विधिना –परिमितोदकसंपातिमसत्त्वरक्षणादियतनयेति तवृत्तिलेशः पञ्चाशकेऽपि - "भूमिपेहणजलछाणणाइजयणा उ होइ पहाणादो । एत्तो विसुद्धभावो, अणुहवसिद्धो च्चिअ बुहाणं" ॥१॥ [ पञ्चा.४/११] व्यवहारशास्त्रे तु - "नग्नातः प्रोषितायातः, सचेलो भुक्तभूषितः । नैव स्नायादनुव्रज्य, बन्धून् कृत्वा च मङ्गलम्" ॥१॥[व्य.शा.] इत्यादि । स्नानं च द्रव्यभावभ्यां द्विधा, तत्र द्रव्यस्नानं जलेन शरीरक्षालनम् , तच्च देशतः सर्वतो वा, तत्र देशतो मलोत्सर्ग-दन्तधावन-जिह्वालेखन-करचरणमुखादिक्षालनगण्डूषकरणादि । सर्वतस्तु सर्वशरीरक्षालनमिति । तत्र च मलोत्सर्गो मौनेन निरवद्यार्हस्थानादिविधिनैवोचितः । यतः - १. तुला-पञ्चाशकटीका प० ७२ ।। २. जइणा-इति पञ्चाशके ॥ ३. हाणादो(ण्हाणंमि)मु० । पहाणादौ-L.P.C. | पहाणाओ-इति पञ्चाशके । D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy