________________
चैत्यपूजनं, चैत्यभेदा:-श्लो० ६०॥]
[२२१ इत्थं च बहुग्रन्थानुसारेण कालप्रत्याख्यानं सूर्योदयात् प्रागेवोच्चार्यम् , नान्यथेति तत्त्वम् ।
अथ प्रत्याख्यानकरणानन्तरं यत् कर्त्तव्यं तदाह –'विधिना' इति विधिनाअनुपदमेव वक्ष्यमाणपुष्पादिसंपादनमुद्रान्यसनादिना प्रसिद्धेन चैत्यपूजनं -द्रव्यभावभेदादहत्प्रतिमार्चनम् , अन्वयः प्राग्वदेव । चैत्यानि च भक्ति १ मङ्गल २ निश्राकृत ३ अनिश्राकृत ४ शाश्वत ५ चैत्यभेदात् पञ्च । यतः -
"भत्तीमंगलचेइअनिस्सकडमनिस्सचेइए वा वि।
सासयचेइअपंचममुवइटुं जिणवरिंदेहिं" ॥१॥[प्र.सा./६५९] तत्र नित्यपूजार्थं गृहे कारिताऽर्हत्प्रतिमा भक्तिचैत्यम् , गृहद्वारोपरि तिर्यक्काष्ठमध्यभागे घटितं मङ्गलचैत्यम् , गच्छसत्कं चैत्यं निश्राकृतम् , सर्वगच्छसाधारणम् अनिश्राकृतम् ४, शाश्वतचैत्यं प्रसिद्धम् ५ । उक्तं च -
"गिहजिणपडिमाएँ भत्तिचेइअं उत्तरंगघडिअंमि । जिणबिंब मंगलचेइअं ति समयन्नुणो बिंति ॥१॥[प्र.सा./६६०] निस्सकडं जं गच्छसंतिअंतदिअरं अनिस्सकडं। सिद्धाययणं च इमं, चेइअपणगं विणिद्दिटुं" ॥२॥[प्र.सा./६६१] इति ।
तत्र चेदं भक्तिचैत्यमिति ज्ञेयम् , मङ्गलचैत्यमिति योगशास्त्रवृत्तावुक्तम् , तच्च प्रागुक्तत्रिविधजिनप्रतिमापेक्षया भाव्यमित्यलं प्रसङ्गेन ॥६०।।
पूजनं च विधिनैव विधीयमानं फलवद् भवति । यतः पूजापञ्चाशके - "विहिणा उ कीरमाणा सव्वाऽवि अ फलवई भवे चेट्ठा ।
इहलोइआऽवि किं पुणा? जिणपूआ उभयलोगहिआ" ॥१॥[ पञ्चा.४।२] इति । तद्विधिमाह -
सम्यक् स्नात्वोचिते काले, संस्नाप्य च जिनान् क्रमात् ।
पुष्पाहारस्तुतिभिश्च, पूजयेदिति तद्विधिः ॥६१॥ 'उचिते' जिनपूजाया योग्ये 'काले' अवसरे 'सम्यग्' विधिना 'स्नात्वा' स्वयं स्नानं कृत्वा 'चः' पुनः 'जिनान्' अर्हत्प्रतिमाः 'संस्नाप्य' सम्यग् स्नपयित्वा ‘क्रमात्' पुष्पादिक्रमेण न तु तमुल्लङ्घ्य, पुष्पाणि -कुसुमानि, पुष्पग्रहणं च सुगन्धिद्रव्याणां विलेपन-गन्ध-धूप-वासादीनामङ्गन्यसनीयानां च वस्त्रा-ऽऽभरणादीनामुपलक्षणम् , आहारश्च-पक्वान्न-फला-ऽक्षत-दीप-जलघृतपूर्णपात्रादिरूपः, स्तुतिः-शक्रस्तवादिसद्भूतगुणोत्कीर्तनरूपा, ततो द्वन्द्वस्ताभिः 'पूजयेदिति' तस्य चैत्यपूजनस्य विधिरिति
१. 'बे-इति प्रवचनसारोद्धारे ॥
D:\new/d-2.pm5\3rd proof