SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २२०] [धर्मसंग्रहः-द्वितीयोऽधिकारः अप्रतिक्रामकेनापि सूर्योदयात् प्राक् चतुर्दशनियमग्रहणं यथाशक्ति नमस्कारसहितग्रन्थिसहितादिव्यासनैकाशनादियथागृहीतसच्चित्तद्रव्यविकृतिनैयत्यादिनियमोच्चारणरूपं देशावकाशिकं च कायम्" इति श्राद्धविधिवृत्तिलिखितानुवादः । [ प० ३९] क्षोदक्षमश्चायम् , यतो नमस्कारसहितपौरुष्यादिकालप्रत्याख्यानं सूर्योदयात् , प्रागेवोच्यारयितुं युक्तम् , न तु तत् पश्चात् , कालप्रत्याख्यानस्य 'सूरे उग्गए' इति पाठबलात् सूर्योदयेनैव संबद्धत्वसिद्धेः, शेषाणि सङ्केतादीनि तु पश्चादपि कृतानि शुध्यन्ति । यतः श्राद्धविधिवृत्तौ-"नमस्कारसहितपौरुष्यादिकालप्रत्याख्यानं सूर्योदयात् प्राग्यधुच्चार्यते तदा शुध्यति, नान्यथा, शेषप्रत्याख्यानानि सूर्योदयात् पश्चादपि क्रियन्ते, नमस्कारसहितं च यदि सूर्योदयात् प्रागुच्चारितं तदा तत्पूर्तेरन्वयि पौरुष्यादिकालप्रत्याख्यानं क्रियते स्वस्वावधिमध्ये, नमस्कारसहितोच्चारं विना सूर्योदयादनु कालप्रत्याख्यानं न शुध्यति, यदि दिनोदयात् प्राग् नमस्कारसहितं विना पौरुष्यादि कृतं तदा तत्पूर्तेरूर्ध्वमपरं कालप्रत्याख्यानं न शुध्यति, तन्मध्ये तु शुध्यतीति वृद्धव्यवहारः" । [श्रा.वि.गा.५वृ.] श्रावकदिनकृत्येऽपि -"पच्चक्खाणं तु जं तंमि" [गा. २२] ति गाथार्थपर्यालोचनयेयमेव वेला प्रतिपादिता संभाव्यते ।। प्रवचनसारोद्धारवृत्तावपि 'उचिए काले विहिणा' [गा. २१३] त्ति गाथाव्याख्यायाम् – "उचितकाले विधिना प्राप्तं यत् स्पृष्टं तद् भणितम् , इदमुक्तं भवति -साधुः श्रावको वा प्रत्याख्यानसूत्रार्थं सम्यगवबुध्यमानः सूर्ये अनुद्गत एव स्वसाक्षितया चैत्यस्थापनाचार्यसमक्षं वा स्वयं प्रतिपन्नविवक्षितप्रत्याख्यानः पश्चाच्चारित्रपवित्रगात्रस्य गीतार्थस्य गुरोः समीपे सूत्रोक्तविधिना कृतिकर्मादिविनयं विधाय रागादिरहितः सर्वत्रोपयुक्तः प्राञ्जलिपुटो लघुतरशब्दो गुरुवचनमनूच्चरन् यदा प्रत्याख्यानं प्रतिपद्यते तदा स्पृष्टं भवतीति" [भा० २, प० १३७]। ____ तथा प्रत्याख्यानपञ्चाशकवृत्तावपि “गिलइ''[५।५]त्ति गाथा, "गृह्णाति प्रतिपद्यते, प्रत्याख्यानमिति प्रकृतं, स्वयं गृहीतमात्मना प्रतिपन्नं विकल्पमात्रेण स्वसाक्षितया वा चैत्यस्थापनाचार्यसमक्षंवा, कदा गृह्णातीत्याह-काले' पौरुष्यादिके आगामिनि सति, न पुनस्तदतिक्रमे, अनागतकालस्यैव प्रत्याख्यानविषयत्वात् , अतीतवर्तमानयोस्तु निन्दासंवरणविषयत्वादिति"[पञ्चाशकवृत्तिः प०८९] १. नियत्या' P.L. || २. च-मु० C. नास्ति । L.P. श्राद्धविधिवृत्तौ च अस्ति ।। ३. नं सर्वं क्रियते-इति श्राद्धविधिवृत्तौ ॥ ४. शब्देन-इति प्रवचनसारोद्धारवृत्तौ प० १३७ ॥ ५. L.P.C. I "गिण्हइ सयं गहीयं काले"त्ति-मु० ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy