________________
धर्मजागरिकास्वरूपम् , प्राभतिककर्तव्यम्-श्लो० ६०॥]
[२१९ किं वाऽर्हतां कल्याणकमित्यादि विमृश्य तद्दिनकर्त्तव्यं प्रत्याख्यानं चिन्तयित्वा स्वयं कुर्यात् प्रत्याख्यानम् । यतः श्राद्धदिनकृत्ये
"छण्हं तिहीण मज्झंमि, का तिही अज्ज वासरे? । किं वा कल्लाणगं अज्ज ?, लोगनाहाण संतिअं ॥१॥[ श्रा.दि./गा.२१] पच्चक्खाणं तु जं तंमि, दिणंमि गिण्हियव्वयं ।
चिंतिऊणं सुसड्डो उ, कुणइ अण्णं तओ इमं" ॥२॥[श्रा.दि./गा.२२ ] ति । अथ च यो न प्रतिक्रामति तेनापि रागादिमयकुस्वप्न-प्रद्वेषादिमयदुःस्वप्नयोरनिष्टसूचकतादृक्स्वप्नस्य च प्रतिघाताय स्त्रीसेवादिकुस्वप्नोपलम्भेऽष्टोत्तरशतोच्छासमानोऽन्यथा तु शतोच्छासमानः कायोत्सर्गः कार्यः । यदुक्तं व्यवहारभाष्ये -
"पाणिवह १ मुसावाए २, अदत्त ३ मेहुण ४ परिग्गहे सुविणे । सयमेगं तु अणूणं, ऊसासाणं झविज्जाहि ॥१॥[व्य.भा./११९] महव्वयाइं झाइज्जा, सिलोगे पंचवीसई ।
इत्थीविप्परिआसे, सत्तावीससिलोइओ ॥२॥ [व्य.भा./१२०] प्राणिवधादिचतुष्के स्वप्ने कृते कारितेऽनुमोदिते च, मैथुने तु कृते द्वितीयगाथात्तराद्धेऽष्टोत्तरशतोच्छ्वासोत्सर्गस्योक्तत्वात् कारितेऽनुमोदिते च शतमेकमन्यूनमुच्छ्वासानां क्षपयेत्-पञ्चविंशत्युच्छ्वासप्रमाणं चतुर्विंशतिस्तवं चतुरो वारान् ध्यायेदिति भावः ।१। अथवा महाव्रतानि दशवकालिकश्रुतबद्धानि कायोत्सर्गे ध्यायेत् , तेषामपि प्रायः पञ्चविंशतिश्लोकमानत्वात् । अथवा यान् तान् वा स्वाध्यायभूतान् पञ्चविंशतिं श्लोकान् ध्यायेत् इति तवृत्तौ" । [ व्य.सू.गा.११९/१२०वृ.]
आद्यपञ्चाशकवृत्तावपि “जातु मोहोदयात् कुस्वप्ने स्त्रीसेवनादिरूपे तत्कालमुत्थायेर्यापथिकीप्रतिक्रमणपूर्वकमष्टोत्तरशतोच्छ्वासप्रमाणः कायोत्सर्गः कार्यः इति"। [ ]
श्राद्धविधौ त्वयं विशेषः -"कायोत्सर्गे कृतेऽपि प्रतिक्रमणवेलाया अर्वाग् बहुनिद्राप्रमादे पुनरेवं कायोत्सर्गः क्रियते, जातु दिवाऽपि निद्रायां कुस्वप्नाद्युपलम्भे एवं कायोत्सर्गः कर्तव्यो विभाव्यते, परंतदैव क्रियते सन्ध्याप्रतिक्रमणावसरे वेति निर्णयो बहुश्रुतगम्यः" [प० ३०] इति ।
"प्रतिक्रामकस्य च प्रत्याख्यानोच्चारात् पूर्वं सच्चित्तादिचतुर्दशनियमग्रहणं स्यात् ,
१. ऊसासे L.C. । ऊसास' P. ॥ २. से अ सत्ता० इति श्राद्धविधिवृत्तौ प० ३७A || ३. र्यापथप्रति० इति श्राद्धविधिवृत्तौ प० ३७B || ४. पुनरेव-मु० । L.P.C. श्राद्धविधिवृत्तावपि पुनरेवम्-इति ॥
D:\new/d-2.pm5\3rd proof