SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ द्वितीयः खण्डः ॥ इदानीं महाश्रावकस्य दिनचर्यारूपं उक्तशेषं विशेषतो गृहस्थधर्ममाह - नमस्कारेणावबोधः स्वद्रव्याद्युपयोजनम् । सामायिकादिकरणं, विधिना चैत्यपूजनम् ॥६०॥ ‘नमस्कारेण’ सकलकल्याणपुरपरमश्रेष्ठिभिः परमेष्ठिभिरधिष्ठितेन 'नमो अरिहंताणं'इत्यादिप्रतीतरूपेण ‘अवबोधो' निद्रापरिहारः, तत्पाठं पठन्निद्रां जह्यादित्यर्थ । अयं विशेषतो गृहिधर्मो भवतीत्येवमग्रेऽप्यन्वयः । — तथा स्वस्मिन् –आत्मनि द्रव्यादेः - द्रव्य-क्षेत्र - काल - भावानाम् 'उपयोजनम्' - उपयोगकरणम्, यथा - द्रव्यतः कोऽहम् ? श्राद्धोऽन्यो वा, के मम गुरव इत्यादि । क्षेत्रत: - कुत्र ? ग्रामे नगरे स्वगृहेऽन्यगृहे वा उपरि अधो वा वसामीति । कालो रात्रिर्वा दिनं वेत्यादि । भावतः किं कुल: ? किं धर्म: ?, किं व्रतो वाऽस्मीत्यादिस्मरणम् । अत्रायं विधिर्निद्राच्छेदे - श्रावकेण तावत्स्वल्पनिद्रेण भाव्यं यथा पाश्चात्यरात्रौ स्वयमेवोत्थीयते । तथा सति ऐहिकामुष्मिककार्यसिद्ध्यादयोऽनेकगुणाः । न चेदेवं तदा पञ्चदशमुहूर्त्ता रजनी, तस्यां जघन्यतोऽपि चतुर्दशे ब्राह्मे मुहूर्त्ते नमस्कारं स्मरन् उत्तिष्ठेत् । ततो द्रव्याद्युपयोगं करोति । तथापि निद्रानुपरमे नासानिश्वासरोधं करोति । ततो विनिद्रः कायिक चिन्तां करोति । कासितादिशब्दमपि उच्चस्वरण न कुर्यात् । हिंसकजीवजागरणेन हिंसाद्यनर्थप्रवृत्तेः, उत्तिष्ठश्च वमाननासिकापक्षीयं पादं प्रथमं भूम्यां दद्यादिति नीतिः । अत्र निद्रात्यागसमये आत्यन्तिकतद्बहुमानकार्यभूतं मङ्गलार्थं नमस्कारम् अव्यक्तवर्णं स्मरेदिति विशेषः । यदाहुः 1 १. तुला-योगशास्त्रटीका ३।१२१ प० ५७९ ॥ २. L.P.C. । 'की' मु० ॥ ३. इत आरभ्य तुलाश्राद्धविधिप्र० प० ३५तः ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy