________________
२१४]
[ धर्मसंग्रहः - द्वितीयोऽधिकारः काश्चन स्वशीलप्रभावादग्नि जलमिव, विषधरं रज्जुमिव, सरितः स्थलमिव, विषममृतमिव कुर्वन्ति । सुलसाप्रभृतयो हि श्राविकास्तीर्थकरैरपि प्रशस्यगुणाः, सुरेन्द्रैरपि स्वर्गभूमिषु पुनः पुनः बहुमतचारित्राः, प्रबलमिथ्यात्वैरपि अक्षोभ्यसम्यक्त्वसम्पदः, काश्चिच्चरमदेहाः, काश्चिद् द्वित्रिभवान्तरितमोक्षगमनाः शास्त्रेषु श्रूयन्ते । तदासां जननीनामिव भगिनीनामिव स्वपुत्रीणामिव वात्सल्यं विधेयमेवेत्यलं प्रसङ्गेन ।
न केवलं सप्तक्षेत्र्यां धनवापः पूर्वोक्तशेषो विशेषतो गृहस्थधर्मः, किन्त्वन्योऽपीति तमाह –‘दीनानुकम्पनम्' इति, दीनेषु निःस्वा-ऽन्ध-बधिर-पङ्गु-रोगार्त्तप्रभृतिषु अनुकम्पनम् – अनुकम्पाकरणम्, केवलया कृपया धनवापः न तु भक्त्येतिभावः । भक्तिपूर्वकं हि सप्तक्षेत्र्यां यथोचितं दानम्, दीनेषु तु अविचारितपात्रापात्रमविमृष्टकल्प्याकल्प्यप्रकारं केवलयैव करुणया स्वधनस्य वपनं न्याय्यम्, भगवन्तो हि निष्क्रमणकालेऽनपेक्षितपात्रापात्रविभागं करुणया साँवत्सरिकदानं दत्तवन्त इति । एवंविधगुणयुक्तश्च महाश्रावक उच्यते । यतो योगशास्त्रे -
' एवं व्रतस्थितो भक्त्या, सप्तक्षेत्र्यां धनं वपन् ।
11
दयया चातिदीनेषु, महाश्रावक उच्यते ॥१॥ [ यो.शा.३/११९] महत्पदविशेषणं च अन्येभ्योऽतिशायित्वात्, यतः - श्रावकत्वमविरतानामेकाद्यणुव्रतधारिणां च शृणोतीति व्युत्पत्त्योच्यते । यदाह -
" संपत्तदंसणाई, पइदिअहं जइजणा सुणेई अ ।
सामायारिं परमं, जो खलु तं सावगं बिंति ॥ १ ॥ [ सं.प्र.५/१, श्रा.प्र.२ ] श्रद्धालुतां श्राति पदार्थचिन्तनाद्धनानि पात्रेषु वपत्यनारतम् ।
किरत्यपुण्यानि सुसाधुसेवनादद्यापि तं श्रावकमाहुरञ्जसा" ॥२॥ [सु.अ.६/३] इति निरुक्ताच्च श्रावकत्वं सामान्यस्यापि प्रसिद्धम्, विवक्षितस्तु निरतिचारसकलव्रतधारी सप्तक्षेत्र्यां धनवपनाद् दर्शनप्रभावकतां परमां दधानो दीनेषु चात्यन्तकृपापरो महाश्रावक उच्यते इत्यलं प्रसङ्गेन ॥ ५९॥
॥ इति प्रथमः खण्डः ॥
..
१. L.P.C. । दीनादिषु-मु० । अतिदीनेषु-इति योगशास्त्रवृत्तौ प० ५७६ ॥ २. कल्पनीयाकल्पनीयप्रकारं-इति योगशास्त्रवृत्तौ प० ५७६ ॥ ३. ° थापि - इति योगशास्त्रवृत्तौ प० ५७७ ।। ४. सौकयार्थमस्माभिरत्र 'प्रथमखण्ड: ' कृत इति ज्ञेयम् ॥
D:\new/d-1.pm5\ 3rd proof