SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २१२] [धर्मसंग्रहः-द्वितीयोऽधिकारः साधूनां च जिनवचनानुसारेण सम्यक्चारित्रमनुपालयतां दुर्लभं मनुष्यजन्म सफलीकुर्वतां स्वयं तीर्णानां परं तारयितुमुद्यतानामातीर्थकरगणधरेभ्य आ च तद्दिनदीक्षितेभ्यः सामायिकसंयतेभ्यो यथोचितप्रतिपत्त्या स्वधनवपनम् , यथा उपयुज्यमानस्य चतुर्विधाहार-भेषज-वस्त्रा-ऽऽश्रयादेर्दानम्। न हितदस्ति यद्रव्य-क्षेत्र-काल-भावापेक्षया-ऽनुपकारकं नाम, तत्सर्वस्वस्यापि दानम् , साधुधर्मोद्यतस्य स्वपुत्र-पुत्र्यादेरपि समर्पणं च। किं बहुना? यथा यथा मुनयो निराबाधवृत्त्या स्वमनुष्ठानमनुतिष्ठन्ति, तथा तथा महता प्रयत्नेन सम्पादनम् , जिनप्रवचनप्रत्यनीकानां साधुधर्मनिन्दापरायणानां यथाशक्ति निवारणम् । यदाह - "तम्हा सइ सामत्थे, आणाभटुंमि नो खलु उवेहा। अणुकूलेहिअरेहि अ, अणुसट्ठी होइ दायव्वा" ॥१॥[ द.शु./१९७] ४। तथा रत्नत्रयधारिणीषु साध्वीषु साधुष्विव यथोचिताहारादिदान स्वधनवपनम् । ननु स्त्रीणां निःसत्त्वतया दुःशीलत्वादिना च मोक्षेऽनधिकारः, तत्कथमेताभ्यो दानं साधुदानतुल्यम् ? उच्यते –निःसत्त्वत्वमसिद्धम् , ब्राह्मीप्रभृतीनां साध्वीनां गृहवासपरित्यागेन यतिधर्ममनुतिष्ठन्तीनां महासत्त्वानां नासत्त्वत्वसम्भवः । यदाह - "ब्राह्मी सुन्दर्याया, राजीमती चन्दना गणधराऽन्या । अपि देवमनुजमहिता, विख्याता शील-सत्त्वाभ्याम्" ॥१॥[स्त्री.नि./३४] एवमन्यास्वपि सीतादिसतीषु शीलसंरक्षण-तन्महिमादर्शन-राज्यलक्ष्मीपतिपुत्रभ्रातृप्रभृतित्यागपूर्वकपरिव्रजनादि सत्त्वचेष्टितं प्रसिद्धमेव । ननु महापापेन मिथ्यात्वसहायेन स्त्रीत्वमय॑ते, न हि सम्यग्दृष्टिः स्त्रीत्वं कदाचिद्बध्नाति, कथं स्त्रीशरीरवर्तिन आत्मनो मुक्तिः स्यात् ? मैवं वोचः, सम्यक्त्वप्रतिपत्तिकाल एवान्त:कोटाकोटिस्थितिकानां सर्वकर्मणां भावेन मिथ्यात्वमोहनीयादीनां क्षयादिसम्भवात् मिथ्यात्वसहितपापकर्मसम्भवत्व[म] कारणम् , मोक्षकारणवैकल्यं तु तासु वक्तुमुचितम् , तच्च नास्ति । यतः - "जानीते जिनवचनं, श्रद्धत्ते चरति चार्यिका सकलम् । नास्यास्त्यसंभवोऽस्या, नादृष्टविरोधगतिरस्ति" ॥१॥[स्त्री.नि./४] इति । १. प्रत्यनीकानां च साधुधर्मनिन्दापरायणानाम्-इति योगशास्त्रवृत्तौ प० ५७२ ॥ २. L.P.C. I नासत्त्व(त्व) सम्भवः मु० । नासत्त्वसम्भवः-इति योगशास्त्रवृत्तौ प०५७३ ॥ ३. न्या[:] इति योगशास्त्रवृत्तौ ॥ ४. “ताः-इति योगशास्त्रवृत्तौ प० ५७३ ।। ५. “ति इति-इति योगशास्त्रवृत्तौ प० ५७३ ॥ ६. "सम्भवत्वमकारणमं-इति योगशास्त्रवृत्तौ प०५७३ ।। ७. चार्यिका[s]शबलम्-इति योगशास्त्रवृत्तौ प० ५७४ ।। ८. "स्यां-इति योगशास्त्रवृत्तौ प० ५७४ ।। D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy