________________
सप्तक्षेत्रस्वरूपम्-श्लो० ५९॥]
[२११ मन्त्रायमाणो धर्माधर्मकृत्याकृत्य-भक्ष्याभक्ष्य-पेयापेय-गम्यागम्य-सारासारादिविवेचनाहेतुः सन्तमसे दीप इव समुद्रे द्वीपमिव मरौ कल्पतरुरिव संसारे दुरापः, जिनादयोऽप्येतत्प्रामाण्यादेव निश्चीयन्ते । यदूचुः स्तुति श्रीहेमसूरयः - "यदीयसम्यक्त्वबलात् प्रतीमो, भवादृशानां परमाप्तभावम् । कुवासनापाशविनाशनाय नमोऽस्तु तस्मै जिनशासनाय" ॥१॥[अयोग द्वा./२१]
जिनागमबहुमानिना च देव-गुरु-धर्मादयोऽपि बहुमता भवन्ति । किञ्च -केवलज्ञानादपि जिनागम एव प्रामाण्येनातिरिच्यते । यदाह - "ओहे सुओवउत्तो, सुअनाणी जइ हु गिण्हइ असुद्धं । तं केवली वि भुंजइ, अपमाणं सुअं भवे इहरा" ॥१॥[पिण्डनि./गा.५२४]
एकमपि च जिनागमवचनं भविनां भवविनाशहेतुः । यदाहुः - "एकमपि च जिनवचनाद्यस्मान्निर्वाहकं पदं भवति । श्रूयन्ते चानन्ताः, सामायिकमात्रपदसिद्धाः" ॥१॥ [ तत्त्वा.सं.का./२७]
यद्यपि च मिथ्यादृष्टिभ्य आतुरेभ्य इव पथ्यान्नं न रोचते जिनभवनम् , तथापि नान्यत्स्वर्गापवर्गमार्गप्रकाशनसमर्थमिति सम्यग्दृष्टिभिस्तदादरेण श्रद्धातव्यम् , यतः कल्याणभागिन एव जिनवचनं भावतो भावयन्ति, इतरेषां तु कर्णशूलकारित्वेनामृतमपि विषायते । यदि चेदं जिनवचनं नाभविष्यत् तदा धर्माधर्मव्यवस्थाशून्यं भवान्धकारे भुवनमपतिष्यत् । यथा च –“हरीतकी भक्षयेद्विरेककामः"[ ] इति वचनाद्धरीतकीभक्षणप्रभवविरेकलक्षणेन प्रत्ययेन सकलस्याप्यायुर्वेदस्य प्रामाण्यमवसीयते, तथाऽष्टाङ्गनिमित्त-केवलिका-चन्द्रार्कग्रहचार-धातुवाद-रस-रसायनादिभिरप्यागमोपदिष्टैदृष्टार्थवाक्यानां प्रामाण्यनिश्चयेनादृष्टार्थानामपि वाक्यानां प्रामाण्यं मन्दधीभिनिश्चेतव्यम् , जिनवचनं दुष्षमाकालवशादुच्छिन्नप्रायमिति मत्वा भगवद्भिर्नागार्जुनस्कन्दिलाचार्यप्रभृतिभिः पुस्तकेषु न्यस्तम् । ततो जिनवचनबहुमानिना तल्लेखनीयम् , वस्त्रादिभिरभ्यर्चनीयं च । यदाह - "न ते नरा दुर्गतिमाप्नुवन्ति, न मूकतां नैव जडस्वभावम् । न चान्धतां बुद्धिविहीनतां च, ये लेखयन्तीह जिनस्य वाक्यम्" ॥१॥[ ]
जिनागमपाठकानां भक्तितः सन्माननं च । यदाह - "पठति पाठयते पठतामसौ, वसन-भोजन-पुस्तकवस्तुभिः । प्रतिदिनं कुरुते य उपग्रहं, स इह सर्वविदेव भवेन्नरः" ॥१॥[]
लिखितानां च पुस्तकानां संविग्नगीतार्थेभ्यो बहुमानपूर्वकं व्याख्यापनम् , व्याख्यापनार्थं दानं, व्याख्यायमानानं च प्रतिदिनं पूजापूर्वकं श्रवणं चेति ३।
१. L.P.C. । तव शासनाय-मु० योगशास्त्रवृत्तौ ॥२. जिनवचनं च दु० इति योगशास्त्रवृत्तौ प० ५७१ ॥
D:\new/d-1.pm53rd proof