________________
२१०]
[धर्मसंग्रहः-द्वितीयोऽधिकार: ____ ननु निरवद्यजिनधर्मसमाचरणचतुराणां जिनगृहबिम्बपूजादिकरणमनुचितम् , षट्जीवनिकायविराधनाहेतुत्वात्तस्य, इति चेत् , न । ।
"देहाइनिमित्तं पि हु , छक्कायवहंमि जे पयस॒ति ।
जिणपूआकायवहमि तेसिमपवत्तणं मोहो" ॥१॥[पञ्चा.प्र.४/४५ ] इति वचनात् य आरम्भपरिग्रहप्रसक्तस्तस्य कुटुम्बपरिपालनादिनिमित्तधनव्ययजनितपापविशुद्ध्यर्थं जिनभवनादौ धनव्ययस्य श्रेयस्करत्वात् । यस्तु निजकुटुम्बार्थमपि नारम्भं करोति प्रतिमाप्रतिपन्नादिः, तस्य मा भूज्जिनबिम्बादिविधापनमपि । अन्यत्रारम्भवत एव धर्मार्थारम्भेऽप्यधिकृतत्वात् । न च धर्मार्थं प्रसह्य धनोपार्जनं युक्तम् । यतः -
"धर्मार्थं यस्य वित्तेहा, तस्यानीहा गरीयसी ।
प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम्" ॥१॥ [ हारि.अ.४/६] इति । यस्तु देहाद्यर्थमारम्भकृदपि न ह्येकं पापमाचरितमित्यन्यदप्याचरितव्यमितिमत्या जिनभवनकारणादौ धार्मिककृत्येऽप्यारम्भं न कुरुते, तस्य महान् दोष एव। तदुक्तं पञ्चाशके
"अण्णत्थारंभवओ, धम्मेऽणारंभओ अणाभोगो।
लोए पवयणखिसा, अबोहिबीअं ति दोसा य" ॥१॥[ पञ्चा.४/१२] न च वाप्यादिखननवदशुभोदकं जिनभवनादिकरणम् । अपि तु सङ्घसमागमधर्मदेशनाकरण-व्रतप्रतिपत्त्यादिकरणेन शुभोदर्कमेव । षट्जीवनिकायविराधना च यतनाकारिणामगारिणां कृपापारवश्येन सूक्ष्मानपि जन्तून् रक्षयतामविराधनैव । यदाहुः -
"जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ निज्जरफला, अज्झप्पविसोहिजुत्तस्स ॥१॥
[पिण्ड.नि./६७१, ओघ.नि./७६०] परमरहस्समिसीणं, समत्तगणिपिडगज्झरिअसाराणं ।
परिणामि पमाणं, निच्छयमवलंबमाणाणं" ॥२॥[ओघ.नि./७६१] इत्यलं प्रसङ्गेन । जिनागमक्षेत्रे स्वधनवपनं यथा-जिनागमो हि कुशास्त्रजनितसंस्कारविषसमुच्छेदन
१. L.P.C. । जिनगृहादिकरणमनुचितं-मु० जिनभवनबिम्बपूजाकरण” इति योगशास्त्रवृत्तौ प० ५६८ ॥ २. इह पयट्टंति-इति योगशास्त्रवृत्तौ प० ५६९ ॥ ३. महाभारते वनपर्वाणि [२।४९] इदृशः श्लोकः उपलभ्यते -
"धर्मार्थं यस्य वित्तेहा वरं तस्य निरीहता।
प्रक्षालनाद्धि पङ्कस्य श्रेयो न स्पर्शनं नृणाम् ॥ ४. L.P. I त्रे च स्व मु० ॥ ५. च्छेदनमहामन्त्रायमाणो-इति योगशास्त्रवृत्तौ प० ५६९।।
D:\new/d-1.pm5\3rd proof