________________
सप्तक्षेत्रस्वरूपम्-श्लो० ५९॥]
[२०९ मनुष्यादीभिर्विधाप्यन्ते । माङ्गल्यकारिता या गृहद्वारपत्रेषु मङ्गलाय कार्यन्ते । शाश्वत्यस्तु अकारिता एवाधस्तिर्यगूर्ध्वलोकावस्थितेषु जिनभवनेषु वर्त्तन्त इति । जिनप्रतिमानां च वीतरागस्वरूपाध्यारोपेण पूजादिविधिरुचित इति १॥
जिनभवनक्षेत्रे स्वधनवपनं यथा –शल्यादिरहितभूमौ स्वयंसिद्धस्योपलकाष्ठादिदलस्य ग्रहणेन सूत्रकारादिभृतकानतिसन्धानेन भृत्यानामधिकमूल्यवितरणेन षट्जीवकायरक्षायतनापूर्वं जिनभवनस्य विधापनम् । सति विभवे भरतादिवद्रत्नशिलाभिर्बद्धचामीकरकुट्टिमस्य मणिमयस्तम्भसोपानस्य रत्नमयतोरणशतालकतस्य विशालशालाबलानकस्य शालभञ्जिकाभङ्गिभूषितस्तम्भादिप्रदेशस्य दह्यमानकर्पूर-कस्तूरिका-ऽगुरुप्रभृतिधूपसमुच्छलद्धूमपटलजातजलदशङ्कानृत्यत्कलकण्ठकुलकोलाहलस्य चतुर्विधातोद्य-नान्दीनिनादनादितरोदसीकस्य देवाङ्गप्रभृतिविचित्रवस्त्रोल्लोचखचितमुक्तावचूलालङ्कृतस्य उत्पतन्निपतद्गायन्नृत्यद्वल्गत्सिहादिनादितवत्सुमहिमानुमोदनप्रमोदमानजनस्य विचित्रचित्रचित्रीयितसकललोकस्य चामरध्वजच्छत्राद्यलङ्कारविभूषितस्य मूर्द्धारोपितविजयवैजयन्तीनिबद्धकिङ्कणीरणत्कारमुखरितदिगन्तस्य कौतुकाक्षिप्तसुरासुरकिन्नरीनिवहाहमहमिकाप्रारब्धसङ्गीतस्य गन्धर्वगीतध्वनितिरस्कृततुम्बुरुमहिम्नो निरन्तरतालारासक-हल्लीसकप्रमुखप्रबन्धनानाभिनयनव्यग्रकुलाङ्गनाचमत्कारितभव्यलोकस्याऽभिनीयमाननाटककोटिरसाक्षिप्तरसिकलोकस्य जिनभवनस्योत्तुङ्गगिरिशृङ्गेषु जिनानां जन्म-दीक्षा-ज्ञाननिर्वाणस्थानेषु सम्प्रतिराजवच्च प्रतिपुरं प्रतिग्रामं पदे पदे विधापनम् । असति तु विभवे तृणकुट्यादिरूपस्यापि । यदाहुः -
“यस्तृणमयीमपि कुटी, कुर्याद्दद्यात्तथैकपुष्पमपि । भक्त्या परमगुरुभ्यः, पुण्योन्मानं कुतस्तस्य ? ॥१॥[ ] किं पुनरुपचितदृढघनशिलासमुद्घातघटितजिनभवनम् ।
ये कारयन्ति शुभमतिविधायिनस्ते महाधन्याः" ॥२॥[ ] राजादेस्तु विधापयितुः प्रचुरतरभाण्डागार-ग्राम-नगर-मण्डल-गोकुलादिप्रदानं जिनभवने वपनम् २। तथा जीर्णशीर्णानां चैत्यानां समारचनं नष्टभ्रष्टानां समुद्धरणं चेति ।
१. इतोऽग्रे-'न हि लोकत्रयेऽपि तत् स्थानमस्ति यन्न पारमेश्वरीभिः प्रतिमाभिः पवित्रितमिति' इति योगशास्त्रवृत्तौ [प० ५६६] अधिकम् ।। २. "त्सुरसमूहमहिमा इति योगशास्त्रवृत्तौ प० ५६७ ।। ३. चित्र मु० नास्ति, L.P.C. योगशास्त्रवृत्तावपि अस्ति [प०५६७] ॥ ४. किङ्किणी इति योगशास्त्रवृत्ती प०५६७॥
D:\new/d-1.pm53rd proof