SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २०८] [ धर्मसंग्रहः- द्वितीयोऽधिकारः मित्युक्तं वाप इति । वपनमपि क्षेत्रे उचितं नाक्षेत्रे इति सप्तक्षेत्र्यामित्युक्तम् । क्षेत्रत्वं च सप्तानां रूढमेव । वपनं च सप्तक्षेत्र्यां यथोचितस्य द्रव्यस्य भक्त्या श्रद्धया च । तथाहि –जिनबिम्बस्य तावद्विशिष्टलक्षणलक्षितस्य प्रसादनीयस्य वज्रेन्द्रनीला-ऽञ्जनचन्द्रकान्त- -सूर्यकान्त - रिष्ट-कर्केतन - विद्रुम- सुवर्ण-रूप्य-चन्दनोपल-मृदादिभिः सारद्रव्यैर्विधापनम् । यदाह - “सन्मृत्तिका -ऽमलशिलातल-रूप्य - दारु- सौवर्ण - रत्न- मणि - चन्दनचारुबिम्बम् । कुर्वन्ति जैनमिह ये स्वधनानुरूपं, ते प्राप्नुवन्ति नृसुरेषु महासुखानि " ॥१॥ [ उत. / ३८ ] तथा - "पासाईआ पडिमा, लक्खणजुत्ता समत्तलंकरणा । जह पल्हाएइ मणं, तह णिज्जरमो विआणाहि ॥१॥ [ सं.प्र.१ / ३२२] तथा निर्मितस्य जिनबिम्बस्य शास्त्रोक्तविधिना प्रतिष्ठापनम्, अष्टाभिश्च प्रकारैरर्चनम्, यात्राविधानम्, विशिष्टाभरणभूषणम्, विचित्रवस्त्रैः परिधापनमिति जिनबिम्बे धनवपनम् । यदाह - " ‘“गन्धैर्माल्यैर्विनिर्यद्बहुलपरिमलैरक्षतैर्धूपदीपैः, सान्नाय्यैः प्राज्यभेदैश्चरुभिरुपहितैः पाकपूतैः फलैश्च । अम्भः संपूर्णपात्रैरिति हि जिनपतेरर्चनामष्टभेदां; कुर्वाणा वेश्मभाजः परमपदसुखस्तोममाराल्लभन्ते ॥१॥ [ ] न च जिनबिम्बानां पूजादिकरणे न काचित् फलप्राप्तिरिति वाच्यम्, चिन्तामण्यादिभ्य इव तेभ्योऽपि फलप्राप्त्यविरोधात् । यदुक्तं वीतरागस्तोत्रे श्रीहेमसूरिभिः - 44 'अप्रसन्नात् कथं प्राप्यं, फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न, फलन्त्यपि विचेतना: ?" ॥२॥ [वीत. १९/३] तथा - " उवगाराभावम्मि वि, पूज्जाणं पूअगस्स उवगारो । मंताइसरण-जलणादिसेवणे जह तहेहं पि" ॥२॥ [ श्रा.प्र. ३४८, पूजा.प. ४/४४] एष तावत् स्वकारितानां बिम्बानां पूजादिविधिरुक्तः, अन्यकारितानामप्यकारितानां च शाश्वतप्रतिमानां यथार्हं पूजन-वन्दनादिविधिरनुष्ठेयः । त्रिविधा हि जिनप्रतिमाः –भक्तिकारिताः स्वयं परेण वा चैत्येषु कारिताः, या इदानीमपि १. °रिष्टाङ्ककर्केतन° इति योगशास्त्रवृत्तौ प० ५६४ ॥ २. मंताईसरजलणा मु० | L.P.C. योगशास्त्रवृत्तावपि [५६६ ] मंताइसरणजलणा' - इति ॥ D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy