SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ व्रतातिचारयोजना-श्लो० ५९॥] [२०७ तथा प्रयत्नः-सम्यक्त्वव्रतग्रहणोत्तरकालं तदनुस्मरणादिः, सम्यक्त्वप्रतिपत्तौ उक्तरूपः, अप्रत्याख्यातविषयस्यापि वा यथाशक्ति परिहारोद्यमरूपा यतना, "नो मे कप्पइ अन्नउत्थिए" [ ] इत्यादिका "परिसुद्धजलग्गहणं, दारुअधण्णाइआण तह चेव । गहिआण वि परिभोगो, विहिएँ तसरक्खणट्ठाए" ॥१॥[श्रा.प्र./२५९] इत्यादिका च । तथा विषयः-सम्यक्त्वव्रतगोचरो जीवा-ऽजीवादितत्त्वरूपः स्थूलसङ्कल्पितप्राण्यादिरूपश्च, तत उपायादीनां द्वन्द्वोऽतस्ते उपायरक्षणग्रहणप्रयत्नविषयाः 'मुणेअव्व' त्ति ज्ञातव्याः, इह विशिषतोऽनुक्ता अपि, कथम् ? इत्याह –'कुम्भकारचक्रभ्रामकदण्डदृष्टान्तेन' धीरैः-बुद्धिराजितैः, इदमुक्तं भवति यथा कुम्भकारचक्रस्यैकस्मिन्नेव देशे दण्डेन प्रेरिते सर्वे तद् देशा भ्रमिता भवन्ति, एवमिहसम्यक्त्वव्रताश्रितविविधवक्तव्यताचक्रस्य सम्यक्त्वव्रतव्रतातिचाररूपे एकदेशे प्ररूपिते उपायादयस्तद्देशा आक्षिप्ता एव भवन्ति । ते च सूत्रादवसेयाः, सक्षेपकरणत्वेनेह तेषामनुक्तत्वादिति गाथार्थः" [पञ्चाशकवृत्तिः १/ ३४] ॥५८॥ इत्थं व्रतातिचारानभिधाय प्रस्तुते तान् योजयन्नाह - एतैविना व्रताचारो, गृहिधर्मो विशेषतः । सप्तक्षेत्र्यां तथा वित्तवापो दीनानुकम्पनम् ॥५९॥ 'एतैः' अतिचारैः ‘विना' 'व्रतानाम्' अणुव्रतादीनामुपलक्षणत्वात् सम्यक्त्वस्य च आचारः -आचरणं पालनमितियावत् , किमित्याह –'विशेषतो गृहिधर्मो' भवति, यः शास्त्रादौ प्राक् सूचित आसीदिति । अथोक्तविशेषगृहिधर्मापेक्षयाऽशेषविशेषगृहिधर्म प्ररूपयन्नाह –'तथा' इति पूर्वसादृश्येऽव्ययम् , यथा विशेषतो गृहिधर्मः पूर्वमुक्तस्तथाऽन्योऽपि वक्ष्यमाणः स एवेति भावः । तथा च तमाह -'सप्तक्षेत्र्याम्' इत्यादि सप्तानां क्षेत्राणां समाहार: सप्तक्षेत्रीजिनबिम्ब १ भवना २-ऽऽगम ३ साधु ४ साध्वी ५ श्रावक ६ श्राविका ७ लक्षणा, तस्यां वित्तस्य-धनस्य श्रावकाधिकारान्न्यायोपात्तस्य वापो -व्ययकरणम् , तच्च विशेषतो गृहिधर्मो भवतीति योज्यम् । एवमग्रेऽपि स्वयमूह्यम् । क्षेत्रे हि बीजस्य वपनमुचित १. चा-L. || २. कस्मिन्नेव-मु० । कस्मिन्नपि-L.P.C. || ३. L.P. । सर्वे देशा-मु० C. ॥ ४. तुला-योगशास्त्रवृत्तिः ३।११९ प० ५६४-५७७ ॥ D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy