SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २०४] [धर्मसंग्रह:-द्वितीयोऽधिकारः ___ संस्तारादिपदत्रयाणां द्वन्द्वः, तेनाप्रत्युप्रेक्ष्याप्रमृज्य चेति प्रत्येकं सम्बध्यते । ततोऽप्रत्युपेक्ष्याप्रमृज्य च संस्तारः, अप्रत्युपेक्ष्याप्रमृज्य चादानम् , अप्रत्युपेक्ष्याप्रमृज्य च हानम् , अनादरोऽस्मृतिश्चेति पञ्चातिचाराः पोषधव्रते ज्ञेया इति सम्बन्धः । तत्र संस्तीर्यते प्रतिपन्नपोषधव्रतेन दर्भ-कुश-कम्बलीवस्त्रादिः स संस्तार: संस्तारशब्दश्च शय्योपलक्षणम् , तत्र शय्या-शयनं सर्वाङ्गीणं वसतिर्वा, संस्तारश्चार्द्धतृतीयहस्तप्रमाणः, स च प्रत्युपेक्ष्य प्रमाय॑ च कर्त्तव्यः, प्रत्युपेक्षणं -चक्षुषा निरीक्षणम् , प्रमार्जनं च - वस्त्रप्रान्तादिना तस्यैव शुद्धीकरणम् , अथाप्रत्युपेक्ष्याप्रमृज्य च संस्तारकं करोति तदा पोषधव्रतमतिचरतीति प्रथमोऽतिचारः १। ____ आदानं-ग्रहणं यष्टि-पीठ-फलकादीनाम् , तदपि यष्ट्यादीनां निक्षेपस्योपलक्षणम् , तेनोभयमपि प्रत्युपेक्ष्य प्रमृज्य च कार्यम् , अप्रत्युपेक्षितस्याप्रमाणितस्य चादानं निक्षेपश्वातिचार इति द्वितीयः । ___ हानं चोत्सर्गस्त्याग इतियावत् “ओहाक् त्यागे" [ धातुपाठे २।७३ ] इत्यस्य धातोः प्रयोगात् , तच्चोच्चार-प्रश्रवणखेलसिङ्घाणकादीनां प्रत्युपेक्ष्य प्रमृज्य च स्थण्डिलादौ कार्यम् , अप्रत्युपेक्ष्याप्रमृज्य चोत्सर्जनमतिचार इति तृतीयः ३। ___ इह चाप्रत्युपेक्षणेन दुष्प्रत्युपेक्षणमप्रमार्जनेन च दुष्प्रमार्जनं सङ्गृह्यते, नञः कुत्सार्थस्यापि दर्शनात् , यथा कुत्सितो ब्राह्मणोऽब्राह्मणः । यत्सूत्रम् – "अप्पडिलेहिअदुप्पडिलेहिअसिज्जासंथारे, अप्पमज्जियदुप्पमज्जिअसिज्जासंथारए, अप्पडिलेहिअदुप्पडिलेहिअउच्चारपासवणभूमी, अप्पमज्जिअदुप्पमज्जिअउच्चारपासवणभूमि" [ उपासकदशाङ्गे सू०७] त्ति ३। तथाऽनादर:-अनुत्साह: पोषधव्रतप्रतिपत्तिकर्त्तव्यतयोरिति चतुर्थः ४। तथाऽस्मृतिः-अस्मरणं तद्विषयैवेति पञ्चमः ५ ॥५७।। इत्युक्ताः पोषधव्रतातिचाराः अथातिथिसंविभागव्रतस्य तानाह - सचित्ते स्थापनं तेन, स्थगनं मत्सरस्तथा । काललोऽन्यापदेश, इति पञ्चान्तिमे व्रते ॥५८॥ १. चादानं (अप्रत्युपेक्ष्याप्रमृज्य च हान)-मु० ॥ २. उद्धृतमिदम्-पञ्चाशकवृत्तौ प० २६, नवपदप्रकरणबृहद्वृत्तौ प० २८३, योगशास्त्रवृत्तौ प० ५६२ । तुला-प्रवचनसारोद्धारवृत्तिः प० २१६॥ D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy