________________
द्वादशतमव्रतातिचारस्वरूपम् - श्लो० ५८ ॥ ]
[ २०५
तेन स्थगनम्, मत्सरः, काललङ्गोऽन्यापदेशश्चेति पञ्चा
सचित्ते स्थापनम्, तिचारा 'अन्तिमे व्रते' अतिथिसंविभागनाम्नि ज्ञेया इत्यन्वयः ।
तंत्र सचित्ते-सचेतने पृथिवी-जल-कुम्भोपचुल्ली - धान्यादौ स्थापनं-साधुदेयभक्तादेर्निक्षेपणम्, तच्चादानबुद्ध्या मातृस्थानतो निक्षिपतीति प्रथमः १।
तेन-सचित्तेन कन्द-पत्र-पुष्प - फलादिना तथाविधयैव बुद्ध्या स्थगनं- पिधानमिति द्वितीयः २।
तथा मत्सरः- कोपः यथा साधुभिर्याचितः कोपं करोति, सदपि मार्गितं न ददाति । अथवा अनेन तावद्रङ्केण याचितेन दत्तम्, किमहं ततोऽप्यून ? इति मात्सर्याद् ददाति, अत्र परोन्नतिर्वैमनस्यं मात्सर्यम् । यदुक्तमनेकार्थसंग्रहे श्रीहेमसूरिभिः
—
‘“मत्सरः परसम्पत्त्यक्षमायां तद्वति क्रुधि" [ ३ / ५७९ ] इति तृतीय: ३।
तथा कालस्य-साधूचितभिक्षासमयस्य लङ्घो - लङ्घनमतिक्रम इतियावत्, अयमभिप्रायः – कालं न्यूनमधिकं वा ज्ञात्वा साधवो न ग्रहीष्यन्ति ज्ञास्यन्ति च यथाऽयं ददातीत्येवं विकल्पतो दानार्थमभ्युत्थानमतिचार इति चतुर्थः ४ |
तथाऽन्यस्य- परस्य सम्बन्धीदं गुड-खण्डादीत्यपदेशो - व्याजोऽन्यापदेशः । यद् अनेकार्थसंग्रहे –
“अपदेशस्तु कारणे व्याजे लक्ष्येऽपि' [ ४/३१० ] इति ।
अयं भावः-परकीयमेतत् तेन साधुभ्यो न दीयते इति साधुसमक्षं भणनम्, जानन्तु साधवो यद्यस्यैतद्भक्तादिकं भवेत् तदा कथमस्मभ्यं न दद्यात् ? इति साधुसंप्रत्ययार्थम्, अथवाऽस्माद् दानात् मम मात्रादेः पुण्यमस्त्विति भणनमिति पञ्चमः ५ ।
इत्थमतिचारभावना उपासकदशाङ्गवृत्त्यनुसारेणोक्ता, तत्र ह्याभोगेनापि विधीयमाना एते अतिचारत्वेनैव समर्थिताः । तथा चैतत्पाठ: -
"एते अतिचारा एव, न भङ्गा, दानार्थमभ्युत्थानाद्दानपरिणतेश्च दूषितत्वात् " [ उपाशकदशाङ्गवृत्तिः १/६ ] भङ्गस्वरूपस्य चेहैवमभिधानात् । यथा -
D:\new/d-1.pm5\3rd proof
१. तुला-योगशास्त्रवृत्तिः ३ ११८, प० ५६३, प्रवचनसारोद्धारवृत्तिः २१३ -४ ॥ २. तुला - तत्त्वार्थसूत्रस्य सिद्धसेनीयावृत्तिः ७ ३१५, पृ० ११६, प्रवचनसारोद्धारवृत्तिः प० २१४ । ३. L. P.C. I ततो न्यून? - मु० । ततोऽपि हीन - इति योगशास्त्रवृत्तौ प० ५६३ ॥ ४. 'अयमर्थः - उचित यो भिक्षाकालः साधूनां तं लङ्घयित्वा, अनागतं वा भुङ्क्ते पोषधव्रती' । इति योगशास्त्रवृत्तौ । तुला-प्रवचनसारोद्धारवृत्तिः प० २१४ ।। ५. करणे - मु० । L.P. C. अनेकार्थसंग्रहे योगशास्त्रवृत्तावपि कारणे-इति ॥